________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / पा विज्ञाता त्वयाप्यस्थ जननौ शुभसुन्दरौ / पावन्तस्तत्सुतास्तेषां सर्वेषामौदृशं मनः // ततो ग्टहीततत्त्वोऽपि राजर्षिरिदमब्रवीत् / बोधार्थं मुग्धलोकानां विनयानतमस्तकः // किं तस्याः शुभसुन्दर्या विद्यन्ते बहवः सुताः / अस्माभिश्च पुरा ज्ञातमयमेककपुत्रकः // गुरुरुवाच / बाढं विद्यन्ते / तथाहि / ये ये त्रिभुवनेऽप्यत्र दृश्यन्तेऽनेन यादृशाः / ते सर्वे शुभसुन्दाः पुत्रा नास्त्यत्र संशयः // किं च। ये केचिदुत्तमा लोके सत्वमार्गानुयायिनः / ते पुत्राः शुभसुन्दर्यास्तुल्या ज्ञेया मनौषिणा // राजर्षिरुवाच / यामौ बालस्य जननी भवद्भिरूपवर्णिता / भदन्त बालादन्येऽपि तस्याः किं मन्ति सूनवः / / मूरिणाभिहितं / नितरां सन्ति / तथाहि / ये ये त्रिभुवनेऽप्यत्र जघन्याः क्लिष्टजन्तवः / ते तेऽकुशलमालायाः पुत्रा नास्त्यत्र संशयः / / ते बालसदृशैरेव विज्ञेया दुष्टचेष्टितैः / एतेऽकुशलमालायाः सूनवः सुपरिस्फुटाः // राजर्षिरुवाच / यद्येवं तईि। तस्याः मामान्यरूपायाः किमन्ये मन्ति सूनवः / For Private And Personal Use Only