________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतोयः प्रस्तावः। 325 किंवा दहापि भो भवन्त्येते प्रशमामृतपायिनः // . प्रव्रज्याग्राहिणे जौवा निर्बाधाः सुखपूरिताः / मा च भागवती दौमा युमा भिरधुना स्फुटम् / संप्राप्ता तेन संप्राप्तं यत्प्राप्तव्यं भवोदधौ // केवलं मततं यत्नः प्रमादपरिवर्जितैः / यावन्नौवं विधातव्यो भवद्भिरिदमुच्यते // यतः। नाधन्याः पारमेतस्या गच्छन्ति पुरुषाधमाः / थे तु पारं व्रजन्यस्यास्त एव पुरुषोत्तमाः // ततस्तैः प्रणतः मर्जजल्पे सूरिसंमुखम् / इच्छामोऽनुग्रहं नाथ कुर्मी नाथानुशासनम् // स्थगिताननदेशेन मुखवस्त्रिकया मुदा। पत्रान्तरे इतः प्रश्नः शत्रुमर्दनसाधुना // कथम् / विशालं निर्मलं धौरं गम्भौरं गुरुदक्षिणम् / दयापरौतं निश्चिन्तं देषाभिष्वङ्गवर्जितम् // स्तिमितं जगदानन्दं यदा वाग्गोचरातिगम् / कथमौदृग्मवे चित्तं नाथ यादृङ मनीषिणः // यस्य चेष्टितमालोक्य शिथिलीभूतबन्धनाः / एते सर्वे वयं मुक्का भौमात् संसारचारकात् // गुरुरुवाच / For Private And Personal Use Only