________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 334 उपमितिभव प्रपञ्चा कथा / ततः प्रवचनोकेन विधिना धूतकल्मषैः / मर्वे ते क्षणमात्रेण दीक्षिता गुरुभिर्जनाः // अथ संवेगवृद्यर्थं कल्पोऽयमिति वा क्षणम् / कता समक्षं लोकस्य सूरिभिर्धर्मदेशना // तद्यथा। अनाद्यनन्तसंभारे जन्ममृत्युभयाकरे। मौनीन्द्रो दुर्लभा सत्त्वैः प्रव्रज्येयं सुनिर्मला // थतः। तावदुःखान्यनन्तानि तावद्रागादिसन्ततिः / प्रभवः कर्मणस्तावत्तावन्जन्मपरम्परा // विपदस्तावदेवतास्तावत्मवी विडम्बना / तावद्दौनानि जल्पन्ति नरा एव पुरो नृणाम् // तावद्दौर्गत्यमद्रावस्तावद्रोगसमुद्भवः / तावदेष बडतोशो घोरसंसारसागरः / / यावनिःशेषमावद्ययोगोपरतिलक्षण / एषा न लभ्यते जीवैः प्रव्रज्यात्यन्तदुर्लभा / प्रसादालोकनाथस्य स्वकर्मविवरेण च / यदा तु सत्त्वैर्लभ्येत प्रव्रज्येयं जिनोदिता // तदा निधूय पापानि यान्ति ते परमां गतिम् / अनन्तानन्दसंपूर्ण निःशेषक्तशवर्जिताम् // ततोऽमौ ये पुरः प्रोक्ताः सर्वेऽपि भवभाविनः / क्षुद्रोपद्रवसंघाता दुरापास्ता भवन्ति ते // For Private And Personal Use Only