________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतोयः प्रस्तावः / 329 रत्नालङ्कारनेपथ्याः सट्रव्यपटलाकुलाः / प्रस्थिता वारनारीणामेते वारा वरेक्षणाः // मनीषिपुण्यसंभाराकष्टास्वर्ण समागताः / एते विबुधसंघाता द्योतयन्ति नभस्तलम् // एष नागरको लोकः कौतुकाचिप्तमानमः / कुरुते हर्षकल्लोलैः मागरक्षोभविभ्रमम् // अथवा / मत्तो विदितवृत्तान्तो मनौषिगुणरंजितः / ज्ञातयुभदभिप्रायः को वात्राप्रगुणो भवेत् // देव तत्माम्प्रतमुत्थातुमर्हथ यूयं / ततः समुत्थितौ मनौषिनरेन्द्रौ निर्गतौ द्वारदेशे। ततो रत्नकिङ्किणीजालभूषिते समारूढ़ः प्रधानस्यन्दने मनीषौ। ततः सुखसुकुमारासनोपविष्टः स्वयं प्रतिपत्रमारथिभावेन सह नरपतिना विलमकिरीटांशरजितोत्तमाङ्गभागो ध्रियमाणेन निजयशोधवलेनातपत्रेण कपोलडोलायमानकुण्डलो धूयमानेन शशधरदीधितिच्छटाच्छेन वरविलामिनीकरवर्तिना चामरप्रकरेण स्थलमुक्ताफलकलापविराजितवक्षःस्थलः पठतातितारमुद्दामबन्दिवृन्देन कटककेयरखचितबाहुदण्डो नृत्यता तोषनिर्भरवरविलासिनीमार्थेन अतिसुरभिताम्बस्लाङ्गरागप्रौणिताशेषेन्द्रियग्रामो बधिरयता दिक्चक्रवालं वरर्यनिर्धाषण विशददिव्यांशकप्रतिपनदेहो गायता मनोहारिकिन्नरसंघन घर्णमानविचित्रवनमालानिचयचर्चितगरौरो मुञ्चता हर्षातिरेकादत्तष्टसिंहनादसन्दर्भ देवसंघेन प्रोणिताशेषप्रणयिजनमनोरथः 42 For Private And Personal Use Only