________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 320 नक्षम हृदयसरोवरे विवेकरनं। ममुलमितं यथावस्थितार्थस्वरूपनिरूपणनिपुणं सम्यग्दर्शनं। संजातो निःशेषदोषमोषकरश्चरणपरिणमः / मति च भगवदवलोकनया जीवस्यैवं विधे कल्याणाभिनिवेशकारिणि गुणकदम्बके न रमते विषयेष चित्तं प्रतिभासते हेयत्वबुद्ध्या भवप्रपञ्चः इन्द्रजालयते निःमारतया मकलं जगदिल मितं स्वप्नदर्शनायते क्षणदृष्टनष्टतया जनसमागमः। न निवर्तते प्रलयकालेऽपि कस्यचिदनुरोधेन मोक्षमार्गस्य साधनप्रवण बुद्धिः। तदेवंस्थिते देव अस्थोपप्रलोभनमाचरतामस्माकं केवलं मोहविलमितमाविर्भविष्यति न पुनः काचिदभिप्रेतार्थसिद्धिः / तदनमनेनास्थानारंभेणेति // नृपतिराह। यद्येवं ततः किं पुनरधुना प्राप्तकालं। सुबुद्धिराह / देव निरूप्य दीक्षाग्रहणर्थमस्य प्रशस्तदिनं क्रियतां तदारात् मर्वादरेण महत्तरः प्रमोदः / नृपतिराह। यत्त्वं जानौषे // ततः समाहूतः सिद्धार्थी नाम मांवत्सरः / ममागतस्त्वरया। प्रविष्टोऽभ्यन्तरे। राजा दापितमासनं। कृतमुचितकरणीयं / कथितमाहानप्रयोजनं। ततो निरूप्य निवेदितमनेन यदुतारमाद्दिनानवमे दिने स्यामेव भाविन्या एक्लत्रयोदश्यां शुक्रदिने उत्तरभद्रपदाभिर्योगमुपगते शशधरे वहति शिवयोगे दिनकरोदयातीते सपादे प्रहरद्वये वृषलग्नं सप्तग्रहकं एकान्तनिरवा भविष्यति / तदाश्रीयतामिति अभिहितं राजमन्त्रिणोः / परिपूज्य प्रहितः सांवत्सरः / गतं तद्दिनं / ततो द्वितीयदिनादारभ्य प्रमोद खरे तदन्यजिनायतनेषु च देवानामपि विस्मारितसुरालयमौन्दर्या विधापिता राज्ञा महोत्सवाः। दापितानि वरवरिकाघोषण For Private And Personal Use Only