________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'उपमितिभवप्रपञ्चा कथा / संभ्रमेण / वदतु विवक्षितं निर्विकल्पमार्यः। सुबुद्धिरुवाच / देव यद्येवं ततो यत्तावदुक्तं देवेन यथा ममात्र मनौषिणि गुरुः स्नेहातिरेकः तद्युतमेव / यतः समुचितो महतां गुणिषु पक्षपातः / स हि क्रियमाण: पापाणुपूगं दलयति मदाशयं स्फौतयति सुजनतां जनयति यशो वर्धयति धर्ममुपचिनोति मोक्षयोगतामालक्ष्यतीति / यत्पुनरुक्तं यथा कथञ्चिदुपप्रलोभ्य कियन्तमपि कालमेष धारणीय इति तन्न न्याय्यं प्रत्युतानुचितमाभासते यतो नैवमस्योपरि स्नेहानुबन्धो दर्शितो भवति किं तर्हि प्रत्युत प्रत्यनौकतां संपद्यते। तथाहि / घोरसंसारकान्तारचारनिःमारकाम्यया / प्रवर्तमानं जैनेन्द्रे धर्म जीवजगद्धिते // मनमा वचमा सम्यक्रियया च कृतोद्यमः / प्रोत्मा हयति यस्तस्य म बन्धुः स्नेहनिर्भरः // अलौकस्नेहमोहेन यस्तु तं वारयेन्जनः / स तस्थाहितकारित्वात्परमार्थेन वैरिकः // तस्मान्न वारणीयोऽयं स्वहितोद्यतमानमः / एवमारभतां देव स्नेहोऽत्र विहितो भवेत् // न चैष शक्यते देव कृतैर्यत्नशतैरपि / मनौषौ लोभमानेतुं विषयैर्दिविकैरपि // यतः प्रादुर्भूतोऽस्य महात्मनो विषयविषविपाकावेदनचतुरे भगवदचने सुनिश्चितः प्रबोधः / विस्फुरितं मकलमलकालव्यक्षाल For Private And Personal Use Only