________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः। 325 देव तत् सर्वानर्थकारि स्पर्शनेन्द्रियं विज्ञेयं // नृपतिना चिन्तितं / श्रये मयापौदं भगवता कथ्यमानं सर्वमाकर्णितमामौत् केवलं न सम्यग् विज्ञातं यथानेन / तदस्य सुबुद्धेरेवंविधबोधेन सुसाधुभिः मह चिरपरिचयः कारणं / अहो वचनको शलं भगवतां / कथितमेवातस्तदामोषां मनीषिप्रभृतीनां सम्बन्धि सर्वमन्यव्यपदेशेन चरितं / अथवा किमत्र चित्रं अत एव प्रबोधनरतयस्ते भगवन्तोऽभिधीयन्ते। तदेवं विचिन्त्याभिहितमनेन / मखे पर्याप्तमिदानी विदितोऽस्मा भिरेष वृत्तान्तः। केवलमिदमिदानीमभिधीयते यदुत योष मनीषी विषयानुषङ्गं कियन्तमपि कालं भजेत ततो वयमप्यनेनैव मह दीक्षाग्रहणं कुर्वीमहि / यतः प्रथमदर्शनादारभ्य प्रवर्धते ममास्योपरि स्नेहानुबन्धः / न संचरति विरहकातरतयान्यत्र हृदयं / न निवर्तयातामेतबदनकमलावलोकनालोचने / ततो नास्य विरहे वयं क्षणमप्या मितुमुत्महामहे। न च तथाविधोऽद्यापि अस्माकमाविर्भवति चरणकरणपरिणामः / तदेनं तावदभ्यर्थय प्रणयस्नेहसारं / अनुभावय निरुपचरितशब्दादिभोगान् / प्रकटयास्य पुरतस्तत्वामिभावं। दर्शय वजेन्द्रनीलमहानोलकर्केतनपद्मरागमरकतवैदूर्यचन्द्रकान्तपुष्परागादिमहारत्नपूगान् दर्शयापहमितत्रिदशसुन्दरीलावण्याः कन्यकाः। सर्वथा कथञ्चिदुपप्रलोभय यथा कियन्तमपि कालमस्मत्समौहितमेष मनौषौ निर्विचारं मंपादयति / सुबुद्धिनाभिहितं / यदाज्ञापयति देवः। केवलमत्रार्थ किञ्चिदई विज्ञापयामि। तद्युक्तमयुक्त वा क्षन्तुमर्हति देवो // नृपतिराह। सखे मदुपदेशदानाधिकारिणं भवतां शिष्यकल्पे मय्यप्यल मियता For Private And Personal Use Only