SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 324 उपमितिभवप्रपञ्चा कथा / मनौषिमध्यमबुद्धियुभदादौनां पुनर्विशिष्ट पुरुषाणां पुण्यप्राग्भारवतां सूरिपादे प्रमादमासाद्य तेनैव सर्वविरतिदेशविरतिपरिणामादयो भावा जनिताः / यद्यपि चेह सर्वस्वैव कार्यस्योत्पत्तौ द्रव्यक्षेत्रकालस्वभावकर्मनियतिपुरुषकारादयः कारणविशेषा दृष्टादृष्टाः समुदायनैव हेतुभावं भजन्ते नैकः क्वचित्कस्यचित्कारणं तथापि विवक्षयकस्यापि कारणत्वं वक्तुं शक्यत इति। तन्निजविलमितमुद्यानमस्माभिर्नानाविधभावनिबन्धनमभिधीयत इति // नृपतिराह / सखे चारूतमिदमिदानौं यद्भवता तदाभिहितमासीत् भगवतः पुरतो यथाहं देवायास्य कर्मविलासस्य राज्ञः स्वरूपं निवेदयिष्यामि तनिवेदयतु भवानहं श्रोतुमिच्छामि। सुबुद्धिराह / देव यद्येवं ततो विविक्त स्थौयतां देवेन। नृपतिनोक्तमेवं भवतु // ततोऽनुज्ञातौ मनीषिणा समुत्थाथास्थानमण्डपात् प्रविष्टौ कक्षान्तरे राजामात्यौ। सुबुद्धिनाभिहितं / देव अयमत्र परमार्था / ये ते भगवता चत्वारः पुरुषाः प्ररूपिताः तेषामुत्लष्टतमास्तावत्मकलकर्मप्रपञ्चरहिताः सिद्धा अभिधीयन्ते / जघन्यमध्यमोत्कृष्टाः पुनरेत एव बालमध्यमबुद्धिमनीषिणो विज्ञेयाः। अतः कर्मविलामो राजा यो भगवता प्रतिपादितः म एतेषामेवंविधस्वरूपाणां जनको निजनिजकर्मादयो विज्ञेयः / स एव हि यथावर्णितवीर्या नापरः। तस्य च तिस्रः शुभाशुभमिश्ररूपाः परिणतयः / ता एव भगवतामोषां मनौषिबालमध्यमबुद्धीनां शुभसुन्दर्यकुशलमाला सामान्यरूपेति नामभिर्जनन्य इति प्रतिपादिताः ता एव यतोऽमूनौदृशरूपतया जनितवत्यः / नपतिराह / म तहमोषां वयस्यः कोऽभिधीयतां / सुबुद्धिरुवाच / For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy