________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 323 मभूत् तत्मकलं वाग्गोचरातौतमिति कृत्वा न शक्यते कथयितुं / तदेवंविधेऽपि तत्र जैनेन्द्रमन्दिरे मनिहितेऽपि तादृशे भगवति गरौ कथयति रागविषशमनं विरागमार्ग नेदीयसि शान्तचित्ते तपखिलोकेऽपि सति तावति जनसमुदये कथं बालस्य तथाविधोऽध्यवमायः सम्पन्न इति। सुबुद्धिनाभिहितं / देव यत्तावदुनं देवेन यथात्र जिनमन्दिरे प्रविष्टमात्रस्य मे क्षणमात्रेणाचिन्तितगुण सन्दोहाविर्भावोऽभूदिति तन्नाश्चर्य / प्रमोद शेखरं हि तद्भवनमभिधौयते हेतुरेव तत्तादृशगुणकलापस्य / यत्पुनरभ्यधायि यथा कथं पुनस्तस्यैवंविधसामय्यामपि पापाचरणेषु प्रवर्तन्त इति / अन्यच्च / भगवदुपदेशादेवाहमेवं तर्कयामि यदुत द्रव्यक्षेत्रकाल भावभवाद्यपेक्षया प्राणिनां शुभाशुभपरिणामा भवन्ति। तदस्य बालस्य क्षेत्रजनितोऽयमशुभपरिणामः / नृपतिराह। ननु गुणाकरस्तज्जैनसदनं / तदेव तत्र क्षेत्र। तत्कथं तदभपरिणामहेतुर्भवेदिति। सुबुद्धिराह। न मन्दिरदोषोऽसौ किं तर्हि उद्यानदोषस्तदुद्यानं तत्र सामान्यक्षेत्रं तच्च हेतुस्तस्य बालस्य तथाविधाध्यवसायस्येति / नृपतिराह / यदि दुष्टाध्यवसायहेतुस्तदुद्यानं ततोऽस्माकं किमिति क्लिष्टचित्तकारणं तन्न सम्पन्न। सुबुद्धिनाभिहितं / देव विचित्रस्वभावं तत्काननं पुरुषादिकमपेक्ष्यानेकाकारकार्यकारकं संपद्यते / अत एव / तबिजविलमितमिति नाम्ना गौयते / प्रकटयत्येव तज्जन्तूनां मविशेषसहकारिकारणकलापैर्निज निज विलसितम् / तथाहि / तस्य बालस्य तेन स्पर्शनेन तया चाकुशलमालया युक्तम्य मदनकन्दलौं प्राप्य तेन तथाविधाध्यवमायः / For Private And Personal Use Only