SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 320 उपमितिभवप्रपञ्चा कथा / तस्मात्तवैव मन्त्रित्वं यथार्था ते सुबुद्धिता // सुबुद्धिरुवाच। देव मा मैवमादिशत / न खलु देव पुण्यप्राग्मारायत्तजीवितव्येऽत्र किङ्करजनेऽप्येवमतिगौरवमारोपयितुमर्हति देवः / अस्याः संपादने केऽत्र वयं। उचित एव देवः खल्वेवं विधकल्याणपरम्परायाः / नैव हि निर्मलाम्बरतले निशि प्रकाशमाना रुचिरा नक्षत्रपद्धतिः कस्यचिदसम्भावनौयेत्याश्चर्यबुद्धिं जनयति। मनौषिएणभिहितं। महाराज भगवति सप्रमादे कियतीयमद्यापि भवतः कल्याणपरम्परा। भाविदिनीसम्बन्धस्येव गगनतलस्यारुणोद्योतकल्पो हि भवतो भविष्यत्केवलालोकमचिवपरमपदानन्तानन्दसन्दोहसम्बन्धस्य प्राथमकल्पिकः खल्वेष सम्यग्दर्शनजनितः प्रमोदः / नृपतिरुवाच। नाथ महाप्रमादः / कोऽत्र सन्देशः। किं न संपद्यते युभदनुचराणां। ततो मन्त्रिणं प्रत्याह। मखे पश्यामौषामद्य दिनप्रबुद्धवानामपि विवेकातिशयः / सुबुद्धिरुवाच / देव किमत्र चित्रं / मनीषिणः खल्वेते यथार्थमभिधीयन्ते / प्रबुद्धवा एव ह्येवंविधपुरुषा जायन्ते। गुरवः केवलमौदृशां प्रतिबोधे निमित्तमात्रं भवन्ति // __ दूतश्च मनौषिणो राजमन्दिरे प्रवेशावसरे राजानमनुजाप्यादित एव सुबुद्धिना माधर्मिकवात्मल्येन मध्यमबुद्धिनॊत प्रामीदात्मीयमदने। कारितस्तदागमननिमित्तः परमानन्दो दत्तानि महादानानि / ततः सोऽपि निर्वर्तितस्त्रानभोजनताम्बल विलेपनास्लङ्करणनेपथ्यमाल्योपभोगः कर्तव्यः / स्नेहनिर्भरसुबुद्धितत्परिकरनिरुपचरितस्तुतिगर्भपेशलालापममानन्दितहदयः समागतस्तत्रैवास्थाने। कृतो For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy