________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 316 वर्धमानस्वास्थ्यातिरेको निर्वतयामास भोजनमिति। ततो रहौतपञ्चसुगन्धिकोन्मिश्रताम्बले मलयजमुगनाभिकश्मीरजचोदाङ्गरागे विन्यस्तप्रवरभूषणे दिव्यांशुकाच्छादितशरौरे माल्यविच्छित्तिसौरभाकष्टहृष्टचिञ्चिरौके अध्यासितमहा ईसिंहामने प्रणतासंख्यमहामामन्तकिरौटांशुजालरञ्जितचरणे उद्दामबन्दिस्वयमानयथावस्थितगुणमन्दो हे दत्तास्थाने मनीषिणि हर्षातिरेकनिर्भरो राजा सुबुद्धिं प्रत्याह / मखे युभदनुभावजन्येयमस्मादृशां कल्याणपरम्परा येनोत्साहितोऽहं भवता भगवदन्दनाय / तथा हि / विलोकितो मया नाथो जगदानन्ददायकः / भक्तिनिर्भरचित्तेन वन्दितो भुवनेश्वरः // दृष्टः कल्पद्रुमाकारः म सरिर्वन्दितो मुदा / लब्धो भागवतो धर्मः संमारोच्छेदकारकः / जातश्चेदृशरूपेण नररत्नेन मौलकः / कृतश्चानेन सर्वेषामस्माकं हृदयोत्सवः / अथवा किमत्राश्चर्यम् / महाभागाः प्रजायन्ते परेषां तोषवृद्धये / खकार्यभेतदेवेषां यत्परनौतिकारणम् // तदस्य युक्तमेवेदं विधातुं पुण्यकर्मणः / ममा तमिदं जातं क डोम्बः क तिलाढकम् // तदेवंविधकल्याणमालिका मित्रवत्सल / एवमाचरता नूनं त्वया संपादिता मम // राज्ञो हितकरो मन्त्री सुप्रसिद्धं जगत्त्रये / For Private And Personal Use Only