________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / देवराजवदास्थानं दत्त्वा निःशङ्कमानमः // ततो विलौनरागोऽपि नृपतेस्तोषवृद्धये / उत्थाय मज्जनस्यानं जगाम गत विमायः // तत्र च गतस्य तस्य / भ्रातः सूनो रिवात्यन्तवल्लभस्य मगौरवम् / कृतं मदनकन्दल्या शरीरपरिमार्जनम् // शेषान्तःपुरनारौ भिळग्राभिः स्नानकर्मणा / रराज पेशलालापचारुभिः परिवारितः // वजेन्द्रनौलवैदुर्यपद्मरागादिरोचिषा। रञ्जिते यन्त्रवापौनां ममन्ज विमले जले // ततो भुजगनि कसूक्ष्माले सुवाससौ। परिधाय गतो देवभवनं सुमनोहरम् // तत्र च। सुबुद्धिसम्बन्धिनि विरचनाचारुतया चित्तनिर्वाणकारिणि जिनमन्दिरे मार्गानुमारितया परमार्थतः मकलकालहृदयवर्तिनोऽपि विशेषतस्त दिन एव प्रबोधनरतिमूरिपादप्रसादोपलब्धस्वरूपस्य मकलनिष्कलावस्थस्य भगवतः परमात्मनो रागद्वेषविषापहरणकरणचतुरमनुस्मृतमहंतः स्वरूपं। ततो निर्गत्य विरलविरलाप्नपरिजनः पूर्वोपकल्पिताशेषभोजनोपकरणमामग्रीमनाथं प्राप्तो भोजनमण्डपं / तत्र च विरचितानेकाकारेचित्तरमनोत्सवकारिणि भक्ष्यपेयाद्याहारविस्तारे नृपतिना स्वयमुपदिश्यमानमभिमतरमास्वादनं तदनुरोधेन विदधानो निरभिष्वङ्गतया For Private And Personal Use Only