________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 317 रराज राजलोकेन परिवारितविग्रहः // करेणुकाधिरूढ़ेन सह मध्यमबुद्धिना / अथावाप पुरद्वारं स्तूयमानः सुबुद्धिना // ततोच्छ्रितपताके च देहशोभामनोरमे। विशेषोज्वलनेपथ्ये हर्षात्ममुखमागते / अथामौ नगरे तत्र मनौषौ तोषनिर्भरैः / एवं नागरकर्लोकः प्रविवेश कृतस्तुतिः // युग्मम् // तद्यथा। धन्योऽयं कृतकृत्योऽयं महात्मायं नरोत्तमः / अस्यैव मफलं जन्म भूषितानेन मेदिनौ / अस्त्येव धन्यतास्माकं येषामेष स्वपत्तने। संजातो न ह्यधन्यानां रत्नपुञ्जेन मौलकः / / ततश्च। कामिनीनयनानन्दं कुर्वाणोऽर्थाभिलाषिणां / ददानश्च महादानं दधानो देवरूपताम् // मद्धम पक्षपातं च देहिनामात्मचेष्टितैः। जनयचनितानन्दो विचचार पुरेऽखिले // ततो महाविमर्दैन सम्प्राप्तो राजमन्दिरम् / रत्नराशिप्रभाजालैः सदा बद्धेन्द्रकार्मुकम् // नत्र चाभेषराजादिलोकसन्मानमानितः / सकामकामिनौवन्दलोललोचनवौचितः // गौतनृत्यप्रबन्धेन मोऽमरालयविभ्रमे / For Private And Personal Use Only