________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतौयः प्रस्तावः / अहमेव भदन्तैस्तु सर्वमेव निवेदितम् // दूतश्च / विज्ञायावसरं तेन पूर्व संजातबुद्धिना। अचानतशिरखेन प्रोत्रं मध्यमबुद्धिना // योऽमौ भगवतादिष्टः संसारतनुताकरः / ग्रहिधर्मः म मे नाथ दौयतामुचितो यदि // गुरुरुवाच / श्रुत्वा भागवतों दौचां न कत्तुं शक्नुवन्ति ये / तेषां ग्रहस्थधर्मोऽसौ युक्त एव भवादृशाम् // नृपतिरुवाच / भदन्त किंखरूपोऽयं हिधर्मोऽभिधीयते / मूरिराह महाराज समाकर्णय कथ्यते // ततो भगवता वर्णितं परमपदकल्याणपादपनिरुपहतबीज सम्यग्दर्शनं। प्रतिपादितानि संसारतस्कन्दच्छेदतयाचिरेण खर्गापवर्गमार्गसंसर्गकारीण्यणुव्रतगणव्रतशिक्षापदानि / ततः सनाततदावरणीयकर्मक्षयोपशमतया भावतः प्रादुर्भूतसम्यग्दर्शनदेशविरतिपरिणामेन शक्योऽयमस्मादृशामण्यनुष्ठातुं ग्रहस्थधर्म इति संचिन्य नरपतिनाभिहितं / भदन्त क्रियतामेतद्दानेनास्माकमप्यनुग्रहः / भगवानाह। सुष्टु क्रियते। ततो दत्तस्तयोईयोरपि विधिना टहिधर्मो भगवता मनौषिदौक्षादानार्थं पुनरभ्युद्यते भगवति भगवञ्चरणयोर्निपत्य नरपतिरुवाच / भदन्त ग्टहीतैवानेन महात्मना भगवतो भागवती दौति / कृतकृत्य एवायमधुना वर्तते / तथापि For Private And Personal Use Only