________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / यतस्तदाज्ञां सर्वेऽपि भौतकम्पितमानसाः / एते नागरिका नैव लंघयन्ति कदाचन // तवापि राज्यहरणे तदाने वा यथेच्छया। शतोऽसौ न तथा तेऽत्र राजन्नाज्ञा प्रकाशते / / परमार्थेन तेनासौ भोकास्येत्यभिधीयते। यतः प्रभुत्वमाज्ञायां प्रभुणं किल गीयते // नरपतिरुवाच / यद्येवं भगवन्नेष कस्माबेहोपलभ्यते / सूरिणभिहितं राजन् समाकर्णय कारणम् / / यतः कर्मविलासोऽयमन्तरङ्गो महानृपः / अतो न दर्शनं याति सर्वदेव भवादृशाम् // अन्तरङ्गा हि ये लोकास्तेषां प्रकृतिरौदृशौ / स्थिताः प्रच्छन्नरूपेण सर्वकार्याणि कुर्वते // केवलं बुद्धिदृश्यैव धीराः पश्यन्ति तान् सदा / आविर्भूता वाभान्ति अन्येषामपि तत्पुरः // न वाव भावना कार्या भवत्यत्र प्रयोजने / म केवलं यतोऽनेन भवानेव पराजितः // किंतु प्रायेण सर्वेऽपि संसारोदरवर्तिनः। खवीर्यण विनिर्जित्य प्रभवोऽपि वशौकताः // नतो ग्टहीततत्त्वेन राजा प्रोकः सुबुद्धिना / देव ज्ञातो मथाप्येष राजा योऽवर्णि सूरिणा / / देवाय कथयिष्यामि रूपमस्य परिस्फुटम् / For Private And Personal Use Only