SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 306 भागवतौ भावदोक्षेत्यभिधीयते / मनौषिणाभिहितं / ततो दौयतां भगवता मा भागवतौ भावदीक्षा याचितोऽहं तस्याः / भगवानाह। बाढमुचितः सुष्टु दौयते // नृपतिनाभिहितं। भदन्त ममानेकसमरसंघट्टनियूंढसाहमस्थापौदमप्रमादयन्त्रं युग्मदचनतः श्रयमाणमपि दुरनुष्ठेयतया मनमः प्रकम्पमुत्पादयत्येष पुनः कः कुतत्यो महात्मा येनेदं महर्षेण महाराज्यमिव जिगीषुणाभ्युपगतमिति। भगवताभिहितं। महाराज मनौषिनामायमचैव चितिप्रतिष्ठिते वास्तव्यः / राज्ञा चिन्तितमये यदायं पापः पुरुषो मया व्यापादयितुमादिष्टस्तदा लोकः श्लाध्यमानः श्रुत एवासौन्मनीषौ। यदुत रे एकस्मादपि पितुर्जातयोः पश्यतानयोरियान् विशेषः / अस्येदं विचेष्टितं स च तथाभूतो मनौषो महात्मेति / तदेष एव मनौषौ प्रायो भविष्यति / अथवा भगवन्तमेव विशेषतः पृच्छामौति विचिन्याभिहितमनेन / भदन्त कौ पुनरस्थात्र नगरे मातापितरौ का वा ज्ञातय इति / भगवानाह। अस्यस्यैव क्षितिप्रतिष्ठितस्य भोक्ता कर्मविलासो महानरेन्द्रः। मोऽस्य जनकस्तस्यैवायमहिषौ शुभसुन्दरी नाम देवी मा जननी / तस्यैवेयमकुशलमाला भार्या / अयं च पुरुषो वालाभिधानः सुत इति / तथा योऽयं मनीषिणः पार्श्ववर्ती पुरुषः मोऽपि तस्यैव सामान्यरूपाया देव्यास्तनयो मध्यमबुद्धिरभिधीयते / एतावदेवात्रेदं कुटुम्बकं / शेषज्ञातयस्तु देशान्तरेवतः किं तद्दार्त्तया। नृपतिराह / किमस्य नगरस्य कर्मविलामो भोक्ता न पुनरहं। भगवानाह। बाढं। राजोवाच / कथं भगवानाह / ममाकर्णय / For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy