________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / परित्यजन्ति बहिर्विक्षेपं। कुर्वन्ति तत्प्रत्ययकतानमन्तःकरणम् / यतन्ते योगसिद्धौ / श्रापूरयन्ति शक्लध्यानं / पश्यन्ति देहेन्द्रियादिविविक्रमात्मानं / लभन्ते परमममाधिं / भवन्ति शरीरिणोऽपि सन्तो मुनिसुखभाजनमिति। तदेवमेते महाराजमुनयोऽमूनि परपोडावर्जनादौनि मुनिसुखभाजनत्वपर्यवमानानि तस्याप्रमादनाम्नो यन्त्रस्योपकरणानि प्रतिक्षणमनुशौलयन्ति / ततोऽमूभिरनुशौलितैरत्यर्थं तदृढौभवति यन्त्रं / तदा भूतं च तदनयोः स्पानाकुशलमालयोरपरेषामप्येवंजातीयानामन्तरङ्गभूतानां दुष्टलोकानां निष्पौडने क्षमं संपद्यते। तेन च निःपौड़ितास्तेऽन्तरङ्गलोका न पुनः प्रादुर्भवन्ति / ततो महाराज यद्येतन्निःपौडनाभिलाषोऽस्ति भवतस्तदिदमप्रमादयन्त्रं स्वचेतसि निधाय दृढवौर्ययध्यावष्टभ्य खल्वेते निष्पौडनीये स्वत एव / न मन्त्रिणोऽप्यादेशो देयः / न खलु परेण निष्पौडिते अध्येते परमार्थतो निष्पौडिते भवतः // ___ एवं भगवति नृपतिगोचरमुपदेशं ददाने मनौषिणः कर्मेन्धनदाहौ शुभपरिणामानलो गतोऽभिवृद्धि भगवदचनेन। केवलं पूर्वोत्तरवाक्ययो विषयविभागमनवधारयन् मनाक् ससन्देह इव विरचितकरमुकुलः स भगवन्तं प्रत्याह। भदन्त यासौ भगवद्भिर्भागवतौ भावदौक्षा वौर्योत्कर्षलाभहेतुतया पुरुषस्योत्कृष्टतमलं माधयतीति प्राक्प्रतिपादिता यच्चेदमिदानौं दुष्टान्तरङ्गलोकनिष्यौडनक्षम सौर्यष्टिकमप्रमादयन्त्रं प्रतिपाद्यते अनयोः परस्परं कियान् विशेषः / भगवताभिहितं। भद्र न कियानपि विशेषः / केवलमनयोः शब्दो भिद्यत नार्थः / यतोऽप्रमादयन्त्रमेव परमार्थतो For Private And Personal Use Only