SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः। रङ्गलोकजातीये एते स्पर्शनाकुशलमाले। अन्तरङ्गलोकेषु च न प्रभवन्ति लोहयन्त्रादौनि। अगम्यरूपा हि ते बाह्मशस्त्राणां // नृपतिरुवाच / भदन्त कस्तीनयोरन्यो निर्दलनोपायो भविष्यति / भगवताभिहितं / अप्रमादाभिधानमन्तरङ्गमेव यन्त्रमनयोर्निर्दलनोपायः / तो ते माधवोऽनयोरेव निष्येषणार्थमहर्निशं वायन्ति / नृपतिरुवाच। कानि पुनस्तस्याप्रमादाभिधानस्य यन्त्रस्योपकरणनि। भगवानाह। यान्येत एव माधवः प्रतिक्षणमनुशीलयन्ति / नृपतिरुवाच। कथं / भगवतोतं / समाकर्णय यावज्जीवमेते नाचरन्ति / तनौयसौमपि परपौडां / न भाषन्ते सूक्ष्ममप्यलोकवचनं। न ग्टहन्ति दन्तशोधनमात्रमप्यदत्तं / धारयन्ति नवराप्तिसनाथं ब्रह्मचर्य / वर्जयन्ति निःशेषतया परिग्रहं / न विदधते धर्मापकरणशरीरयोरपि ममत्वबुद्धिं नासेवन्ते रजन्यां चतुर्भदमण्याहारजातं। श्राददते प्रवचनोपवर्णितं समस्तोपधिविशुद्धं संयमयात्रामात्रसिद्धये निरवद्यमाहारादिकं / वर्तन्ते ममितिगुप्तपरिपूरितेनाचरणेन / पराक्रमन्ते विविधाभिग्रहकरणेन। परिहरन्यकल्याणमित्रयोगं। दर्शयन्ति मतामात्मभावं / न लंघयन्ति निजामुचितस्थिति। नापेक्षन्ते लोकमार्ग। मानयन्ति गुरुमंहतिं। चेष्टन्ते तत्तन्त्रतया। श्राकर्णयन्ति भगवदागमं भावयतिमहायत्नेन / अवलम्बते द्रव्यापदादिषु धैर्य / पर्यालोचयन्न्यागमिनमपायं। यतन्ते प्रतिक्षणममपत्नयोगेषु / लक्षयन्ति चित्तविश्रोतसिकां / प्रतिविदधते चानागतमेव तस्याः प्रतिविधानं / निर्मलयन्ति सततमसङ्गताभ्यासरततया मानसं। अभ्यस्यन्ति योगमार्ग। स्थापयन्ति चेतसि परमात्मानं / निबध्नन्ति तत्र धारणां। For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy