________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 312 उपमितिभवप्रयचा कथा / वयमेनं मनीषिणमुद्दिश्य किञ्चित्मन्तोषानुरूपमाचरितमिच्छामस्तदनुजानात भगवानिति / तदाकर्ण्य स्थिता भगवन्तस्तूष्णौभावेन / सुबुद्धिनाभिहितं / देव न पृच्छयन्ते द्रव्यस्तवप्रवृत्तिकाले भगवन्तः / अनधिकारो झत्र भगवतां / युक्त एव यथोचितः स्वयमेव द्रव्यस्तवः कत्तुं युभादृशां। केवलमेतेऽपि विहितं तमनुमोदन्ते एव द्रव्यस्तवं / ददति च तगोचरं शेषकालमुपदेशं। यथा कर्तव्योदारपूजा भगवतां / न खलु वित्तस्यान्यच्छुभतरं स्थानमित्यादिवचनसन्दर्भण / तस्मात्स्वत एव कुरुत यथोचितं यूयं। केवलमभ्यर्थयामः कालप्रतीक्षणं प्रति मनौषिणं / नृपतिरवोचदेवं कुर्मः। ततोऽभ्यर्थितः सबहुमानं राजमन्त्रिभ्यां मनीषौ। चिन्तितमनेन / न युक्तः कालविलम्बो धर्मप्रयोजने। तथापि महापुरुषप्रणयभङ्गोऽपि सदष्कर इति मन्यमानेन प्रतिपन्नं तत्समौहितम् / ततस्त्वरयता तेन नरनाथेन तोषतः / व्यापारिता महायोच्चैः मर्व मन्त्रिमहत्तमाः // ततस्तैः क्षणमात्रेण तत्सर्वं जिनमन्दिरम् / विचित्रवस्तु विस्तारैर्विहितं विगतातपम् // कुरङ्गनाभिकामोरमलयोनवरूपया। कर्पूरोन्मिश्रया गार्या तदधस्तादिले पितम् // तथालिकुलमगीतैः पञ्चवर्णैर्मनोहरैः / श्राजानूमेधिभिः पुष्पैः सर्वतः परिपूरितम् / / सौवर्णस्तंभविन्यस्तमणिदर्पणराजितम् / दिव्यवस्वकृतोलोचं बद्धमुकावचलकम् // For Private And Personal Use Only