SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 303 ग्टहीतोऽयमनेन स्निग्धबन्धबुद्ध्या / नरपतिरुवाच / किमत्र पुनः कारणं / भगवताऽभिहितं / अस्य शरीरे योगशकिदारेण कृतानुप्रवेशा अकुशलमाला नाम जननी / साऽत्र कारणम् // किञ्च / यदिदमतिदुर्जयमधुनैव स्पर्शनेन्द्रियमस्माभिः प्रतिपादितं तद्रप एवायमस्य स्पर्शनाभिधानः पापवयस्थो वर्तते। अयं तु जघन्यपुरुषो बालः। यं च तदभिधानव अकुशल कर्ममालारूपैव जननौ। तदत्र किं न सम्भाव्येत / यच्चोक भगवत्मन्निधानेऽपि कथमेवंविधाध्यवसायप्रादुर्भाव इति तदप्यत एव नाश्चर्थबुद्ध्या ग्राह्य। यतो दिभेदं जन्तूनां कर्म। मोपक्रम निरूपक्रम च। तत्र मोपक्रममेव महापुरुषमनिधानादिना क्षयक्षयोपशमभावं प्रतिपद्यते न निरुपक्रमं / तद्दशगाश्च जन्तवस्तत्ममौ पेऽपि विरूपकर्माचरन्तः केन वार्यन्ते। तथाहि। येषामचिन्यपुण्यप्राग्भारवतां तीर्थकृतामिह जगति गन्धहस्तिनामिव विचरतां विहारपवनगन्धादेव क्षुद्राशेषगजकल्या दुर्भिक्षेतिपरचक्रमारिवैरप्रभृतयः सर्व एवोपट्रवाः समधिकयोजनशतात् दूरत एव भज्यन्ते तेषामपि भगवतां मन्निधाने निरुपक्रमकर्मपाशावपाशिताः चट्रसत्वा न केवलं नोपशाम्यन्ति किं तर्हि तेषामेव भगवतां तीर्थकृतां क्षुद्रोपद्रवकरणे प्रवर्तन्ते। श्रूयन्ते हि तथाविधा भगवतामप्युपसर्गकारिणो गोपसङ्गमकादयः पापकर्माण इति // अन्यच्च / तेषामेव भगवतां देवविरचितसमवसरणानामध्यामितसिंहामनचतुष्टयानां मूर्त्तिमात्रदर्शनादेव प्राणिनां किल विलीयन्ते For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy