________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभव प्रपञ्चा कथा ! एवंविधां दुःखपरंपरां संपादयति स कथमन्येषां धनायिष्यति // सुबुद्धिनाभिहितम् भगवनुष्टष्टतमाः पुरुषाः कस्य माहात्म्येन भवन्ति / गुरुराह न कस्यचिदन्यम्य किं तर्हि खवौर्येण / सुबुद्धिनाभिहितं / कस्तथाविधवार्यलाभोपायः। मुनिराह / भागवतौ भावदीक्षा // मनौषिणा चिन्तितं / अये यद्येवं ततो युज्यते ममोटारतमस्य भवितुं / किमनयाशेषविडम्बनया / ग्टलाम्येनां भगवदादिष्टां भागवती मेव दीक्षामिति // भावतः सञ्जातो मनीषिणश्चरणपरिणामः / मध्यमवुद्धेरप्येवं गुरुमन्त्रिणोः परस्परजल्पमाकर्णयतः मञ्जातश्चरणाभिलाषः। केवलं नाहमेतावतो नैष्टिकानुष्ठानस्य क्षम इति विचिन्तितमेनन / सुबुद्धिनाऽभिहितम् / भदन्त योऽयमम्माभिर्टहिधर्मोऽभिधीयते / एष तादृशवीयस्य किं भवेत्कारणं न वा // गुरुराह / स्यादेष पारंपर्येण तादृशस्यापि कारणम् / वौर्यस्य न पुनः माहादातो मध्यजनोचितः // उल्टायतां करोत्येष माक्षात्मभ्यङ् निषेवितः / ततस्तादृशवीर्यस्य पारंपर्येण साधकः // अमेषक्लेशविच्छेदकारिका भवदारिका / तावद्भागवती दीक्षा दुर्लभैव सुनिर्मला // किं तु श्रावकधर्मोऽपि भवतानवकारकः / अत्यन्तदुर्लभो ज्ञेयो महामात्य भवोदधौ // For Private And Personal Use Only