SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 269 जननी। या पुनरकुशलकर्ममाला (मा) जघन्यमनुष्याणां जननी। या पुनः कुशलाकुशलतया सामान्यस्वरूपा कर्मपद्धतिः मा मध्यमनराणां जनयित्रौ विज्ञयेति // मनीषिणा चिन्तितम् / श्रये न केवलं गुणोवरितेन चैतेऽस्माकमुल्टाष्टमध्यमजघन्याः पुरुषाः समानरूपा भगवद्भिर्व्याख्याताः किं तर्हि जननौजनकव्यतिकरोऽपि अस्माकमेतैः मह तुल्य एव भगवता दर्शितः। तस्मान्ननमेतद्रपरेवास्माभिर्भवितव्यम्। तथाहि / योऽसौ भवजन्तुमी निराकृत्य निर्वृतिं प्राप्त इति स्पर्शनेनास्मभ्यं निवेदितो न तस्य तेन जननी जनको वा कश्चिदाख्यातः। तस्मादत्रष्टतमोऽसाविति निश्चीयते। अस्माकं पुनस्त्रयाणामपि कर्मविलामो जनकः भगवदादिष्टाभिधाना एव जनन्यः / तस्मादिदमत्रावसीयते यदुत जघन्यो बालो मध्यमो मध्यमबुद्धिः उत्टष्टोऽहमिति // सुबुद्धिनाभिहितं / भगवनेतेषामुल्लष्टतमादीनां पुरुषाणां किं मर्वदावस्थितमेव रूपं परावोऽपि भवति / भगवानाह। महामन्त्रिन् उत्स्टीटतमानां तावदवस्थितमेव रूपं न कदाचिदन्यथाभावं ते भजन्ते / इतरेषां पुनरनवस्थितं स्वरूपं यतः कर्मविल्लामायत्ताः खल्वेते वर्तन्ते। विषमगौलचामौ प्रकृत्या कदाचिदुटाटानपि मध्यमयति जघन्ययति वा मध्यमानपि चोल्टष्टयति जघन्ययति वा जघन्यानपि मध्यमयति उत्साष्टयति वा / तस्मादनेन कर्मविलासेन सुक्तानामेवैकरूपता भवति नेतरेषाम् // मनीषिणा चिन्तितम् / एतदपि घटत एवास्मड्यतिकरे। तथाहि। विषमशील एवास्मन्जनको यतः कथितं तेनैव मे यथा मथि प्रतिकूले यदुपपद्यते तत्सम्पन्न बालस्येति। ततश्च यो निजतनयस्यापि प्रतिकूलचारितया For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy