SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। दूतरे तु यतः स्तोकाः सकलेऽपि जगत्त्रये // स्पर्शनेन्द्रियजेतारो विरला भुवने नराः / तेनास्माभिरिदं पूर्वं भवद्भ्यः प्रतिपादितम् // नरपतिरुवाच / धर्म यतो न कुर्वन्ति स हेतुः प्रतिपादितः / भगवन्नाशितोऽस्माकं भवद्भिः मंगयो महान् // अत्रान्तरे तु सुबुद्धिमन्त्रिणाऽभिहितं / भगवन् य एते जघन्यमध्यमोल्लाष्टोल्लष्टतमरूपतया चतुर्भदाः पुरुषाः पश्चानुपूर्व्या भगवद्भिः स्वरूपतो व्याख्याताः एते किमेवंवरूपाः प्रकृत्यैव भवन्ति पाहोखिदेवंविधस्वरूपजनकमेतेषां किञ्चित्कारणमस्तौति कथयन्तु भगवन्तः। भगवानाह। महामन्त्रिन्नाकर्णय / न तावत्प्राकृतमिदमेतेषां स्वरूपं किं तर्हि कारणजं / तत्र ये तावदुष्टतमाः पुमांसः प्रतिपादिताः ते केवलमुल्टाष्टेभ्यो निष्पन्नवप्रयोजनतया भिद्यन्ते न परमार्थन / यतस्त एवोल्टष्टा यदावाप्य मनुष्यभावं विज्ञाय भवस्वरूपमाकलय्य मोक्षमार्ग तदासेवनेन दलयित्वा कर्मजालं निराकृत्य स्पर्शनेन्द्रियं नितिं प्राप्ता भवन्ति तदोल्लतमा इत्यभिधीयन्ते / निवृतौ च तेषां स्वरूपेणावस्थानं। तामवस्थामपेक्ष्य न किञ्चिजनकमस्ति। तेनोत्कृष्टतमानां पुरुषाणां न कश्चिज्जनको जननी वा। एते पुनर्जघन्यमध्यमोल्टष्टाः पुरुषाः संसारोदरविवरवर्तिनः स्वकर्मविचित्रतया जायन्ते। तस्मात्म एव कर्मविलासस्तेषां जनकः / तच्च कर्म त्रिविधं वर्तते। तद्यथा। शुभमकुशलं सामान्यरूपं च। तत्र या कर्मपद्धतिः भतया सुन्दरौ मा शुभसुन्दरौ मनुष्यत्वेनोल्टष्टानां For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy