________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतौयः प्रस्तावः / 267 267 दुर्लभः स्त्यादि विषयः कथञ्चिदसदाग्रहः / यदा पुनर्विवर्तत हृदयेऽतिमहाग्रहः // तदा ते यान्ति दुःखानि याश्च लोके विडम्बनाः / प्राप्नुवन्ति न शक्यन्ते ता व्यावर्णयितुं गिरा // केवलं गदितं शक्यमियदेव समामतः / लभन्ते ते नराः सर्वा लोके दुःखविडम्बनाः // प्रकृत्यैव भवन्ये ते गुरुदेवतपस्विनाम् / प्रत्यनौका महापापा निर्भाग्या गुणदूषणः // मन्मार्गपतितं वाक्यमुपदिष्टं हितैषिणा / केनचिन्न प्रपद्यन्ते ते महामोहदूषिताः // ततश्चेदं मुनेर्वाक्य विनिश्चित्य मनीषिणा / विचिन्तितमिदं चित्ते तथा मध्यमबुद्धिना // स्तर्शनेन्द्रियलब्धानां यदेतदपवर्णितम् / नणां वृत्तं जघन्यानां सूरिभिर्विशदाक्षरैः / तदेतत्सकलं बाले प्रतीतं गुटमावयोः / नाप्रतीतं वदन्येते यदि वा वरसूरयः // बालेन तु गुरोर्वाक्यं न मगागपि लक्षितम् / तस्यां मदनकन्दल्यां क्षिप्तचित्तेन पापिना / सूरिरुवाच / तदेवं भो महाराज जघन्यनरचेष्टितम् / निवेदितं मया तुभ्यं तत्रेदमभिधीयते // एते जघन्या भूयांसो भुवने सन्ति मानवाः / 38 For Private And Personal Use Only