SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः। 275 बाल: प्राह / कोऽत्र विकल्पो निःसन्दिग्धमिदं ततः कृतस्ताभ्यां योगशकिव्यापारपूर्वको भूयस्तदीयशरौरे प्रवेशः प्रादुर्भूतं मदनकन्दलौगोचरं भृशतरमौत्सुक्यं प्रवृत्तोऽन्तस्तापः प्रवृत्ता जम्भिका पतितः शयनीय तब चानवरतमुद्वर्तमानेनाङ्गेन तथा विचेष्टमानो दृष्टोऽसौ मध्यमबुद्धिना ममुत्पन्ना करुणा तथापि मनौषिवचनमनुस्मरता न पृष्टो वार्तामपि बालस्तेन। अत्रान्तरेऽस्तं गतो दिनकरः। ततः प्रथमप्रदोष एव निर्गतो बालः / अवधीरितो मध्यमबुद्धिना प्राप्तः शत्रुमर्दनराजकुलं प्रविष्टोऽभ्यन्तरे दृष्टं वासभवनं चलितस्तदभिमुखं ततः प्रचुरतया लोकस्य मान्धकारतया प्रदोषस्य व्यग्रतया प्राहारिकाणां कथंचिदलक्षित एवामौ प्रविष्टो वामभवनं विलोकितस्तन्मध्यभागः प्रकाशितो मणिप्रदीपैः सनाथो महाशियनेन / दूतश्च तस्मिन्नवसरे मा मदनकन्दली तत्रस्यैव वामभवनस्यादूरवर्त्तिन्यां प्रसाधनगालिकायामात्मानं चर्चयन्तौ तिष्ठति। ततस्तछन्यमवलोक्य म बालो बालतयैवारूढः शय्यायाम्। श्राः कोमलेति भावनया समुद्भूतो हर्षः क्षिप्तमुच्छोर्षकप्रावरणं किल तिरथीनो भविष्यति / यावद्विहिताशेषप्रदोषकर्त्तव्यो विमर्जितास्थानिकलोकः कतिचिदाप्त पुरुषपरिकरो .ज्वलत्प्रदीपदर्शितमार्गः समागतः शत्रुमर्दनस्तवारदेश दृष्टः प्रविशन् बालेन ततोऽतितेजखितया शत्रुमर्दनस्य सत्त्वविकलतया हृदयस्य माध्वमहेतुत्वादकार्याचरणस्य प्रतिकूलतया कर्मविलासस्य स्वफलदानोन्मुखतयाकुशलमालायाः स्वविपाकदर्शनतया स्पर्शनस्य भयोत्कर्षन वेपमानगात्रयष्टिर्निपतितो बालो भूतले ततोऽत्युच्चतया पर्यस्य कणकणतया मणिकुट्टिमस्य शिथि For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy