________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः। 273 त्राश्चय ये पुनरादित एव पापानुष्ठानाः शुभजनसंपकै रहयन्ति तेषां नैष दोषोऽनुयुज्यते अत्रार्थ अयमेव मनीषौ दृष्टान्तः थोऽयं महात्मा परिहृतपापप्रवणबालवात्मल्यो निष्कलङ्क सुखेन जोवतीति ततस्तं लोकवादमाकर्णयता मयेदं लक्षितमिति मध्यमबुद्धिना चिन्तितमये / दोषेषु वर्त्तमानस्य नरस्याकै जन्मनि / नास्त्येव सुखगन्धोऽपि केवलं दुःखपद्धतिः // स हि दुःखभाराकान्तस्तावता नैव मुच्यते / श्राक्रोशदानतस्तस्य लोकोऽन्यद्वैरिकायते // एक म दुःखैर्निर्दग्धो द्वितीयं निन्दितो जनः / गण्डस्योपरि मंजातः स्फोटो बालस्य दुर्मतेः // जनानां करुणास्थानं जातोऽहं बालमोलकात् / कलितस्तादृशः प्राय: कैश्चित्तत्त्वविचारकैः // दुःखाकरः सतां निन्द्यो ममेदानों विजानतः / तस्मान युक्तः संसर्गो बालेन सह पापिना // गुणषु वर्त्तमानस्य नरस्यानैव जन्मनि / जायन्ते संपदः सर्वा यथास्यैव मनौषिणः // यथा एकलङ्कः सुखौ श्लाघनीयो विपश्चिताम् / बालस्पर्शनसंसर्गभौरुत्वादेष वर्तते // तथापि लोका दोषेषु सततं विहितादराः / गुणेषु शिथिलोत्माहा वर्त्तन्ते पापकर्मणा // तदेवं गुणदोषाणां विशेषं पश्यता मया : 35 For Private And Personal Use Only