________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 272 उपमितिभवप्रपञ्चा कथा / धिकेषु प्रमोदवन्तो महात्मान इति विमर्शन धन्यः पुण्यभागसौ भवजन्तुः येनायं समस्तानर्थ हेतुः स्पर्शनः पापवयम्यः सर्वथा निराकृत इत्यालोचयतः समुलमितस्तं प्रति हर्षः / तातेन तु केवलमट्टहासेन हसितं मयाभिहितं तात किमेतत् तातेनाभिहितं पुत्र यन्मयि प्रतिकूले संपद्यते तत्संपन्नं बालस्यातो मे हर्षः। हा जात क गतोऽसौति परिदेवितं मामान्यरूपया न सञ्जातो मामकतनयस्यापाय इति हृष्टा चित्तेन मदीयजननी नगरस्य तु सम्पन्नो बालहरणेन प्रमोदः सञ्जाता त्वदीयगमनेन करणा प्रादुर्भूतः खस्थावस्था न दर्शनेन ममोपरि पक्षपातः। मध्यमबुद्धिराह कथमेतलचितं भवता मनौषिणाभिहितं निर्गतोऽहमासीत्तदा नगरे कुलूहलेन भ्रमणिकया ततः श्रुता मया परस्परं जल्पन्तो लोकाः यद्ताहो सुन्दरं संपन्नं यदसौ कलङ्कहेतुर्निजकुलस्य दुष्टोऽन्तःकरणेन वर्जितो मर्यादया बहिर्भूतः सदाचारात् निरतः सततमगम्यगमने अत एवोपतापकरो नगरस्य बालः केनापि महात्मनापहृत इति। अन्येनाभिहितं सुष्टु सुन्दरमेवं तु सुन्दरतरं भवति यद्यसौ छिन्नो भिन्नो व्यापादितश्च श्रूयते यतस्तस्मिन्नेकान्ततः प्रलौने एव पापे नागरिकाणं शौलसंरक्षणं संपत्यते नान्यथा / अन्येनाभिहितं सुन्दरमिदं केवलं यदमौ मध्यमबुद्धिस्तपखौ तस्य पृष्ठतो लग्नः क्लिग्यते तन्न चारु स हि विशिष्टप्रायः प्रतिभामतेऽस्माकं ततोऽपरः प्राह भद्र ये पापवृत्तानां वत्सला भवन्ति तेषां कौशी विशिष्टता न खलु जात्याकनकं श्यामिकया मह संसर्गमर्हति अत एव लभन्ते तवारेणैव दुःखपरंपराम् / अयशश्व लोके किम For Private And Personal Use Only