________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / अपायो देवशय्यायां सुप्तस्येति न भावितम् // दृष्टस्य लाघवं लोकैरिति नैव नमस्कृतम् / विज्ञातं नेति संपत्ये हास्यो मध्यमबुद्धितः // अनालोच्यायति मोहात् केवलं सुप्त एव सः / पारुह्य शय्यां तां दिव्यां कृतं बालविचेष्टितम् // ततस्तस्यां विशालायां शय्यायां बद्धमानमः / दूतश्चेतश्च कुर्वाण: सर्वाङ्गाणि पुनः पुनः // अहो सुखमहो स्पर्शस्तथाहो धन्यता मम / चिन्तयनिति शय्यायां लुठमानः स तिष्ठति / / इतश्च नगरे तत्र बहिरङ्गो नृपोत्तमः / अन्योऽप्यस्ति महातेजाः प्रख्यातः शत्रुमर्दनः // तस्यास्ति पद्मपत्राची प्राणेभ्योऽपि सुवल्लभा // प्रधानकुलसंभूता देवी मदनकन्दली / ग्राहितार्चनिका सा च परिवारण संयुता // श्रायाता तत्र सदने कामदेवस्य पूजिका / देवकोष्ठस्थितं सा च संपूज्य मकरध्वजम् // संवामभवनस्थस्य प्रविष्टा तस्य पूजिका / प्रविशन्नौमुदीच्यामौ तां स्त्रीति कृतनिश्चयः // लज्जाभयाभ्यां निश्चेष्टो बाल: काष्ठमिव स्थितः / ततो मन्दप्रकाशे मा भवने मृगलोचना // हस्तस्पर्शन शय्यायां देवमर्चयते किल / चन्दनेन च कुर्वन्या रतिकामविलेपनम् // For Private And Personal Use Only