________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / पूजितश्च प्रयत्नेन संस्तुतो गुणकोर्ननैः // अथ प्रदक्षिणां तस्य ददानो देवसद्मनः / बालो ददर्श पार्श्वस्थं गुप्तस्थाने व्यवस्थितम् // तस्यैव रतिनाथस्य देवस्य कृतकौतुकम् / संवामभवनं रम्यं मन्दमन्दप्रकाशकम् // कुतूहलवशेनाथ दारि संस्थाप्य मध्यमम् / मध्ये प्रविष्टः सहसा स बालस्तस्य सद्मनः // अथ तत्र सुविस्तौणी सपर्यकां मलिकाम् / मृदूपधानसंपन्नां कोमलामलचेलिकाम् // सुप्तेन रतियुक्तेन क्रान्तमध्यां मनोभुवा / स ददर्श महाशय्यां देवानामपि दुर्लभाम् // ततो मन्दप्रकाशत्वात् संवासभवनस्य सः / किमेतदिति संचिन्त्य शय्यां पस्पर्श बालकः // इतश्चेतश्च हस्तेन स्पृशता सुचिरं मुदा / ततो विभावितानेन शय्यैषा मकरध्वजौ // विचिन्तितं च तत्स्पर्धकौमल्यहतचेतसा / अहो कोमलता मन्ये नान्यत्र भवतोदृशौ // ततः शरीरवर्त्तिन्या जनन्या स्पर्शनेन च / प्रेर्यमाण: खकीयेन चापलेन च दूषितः / म बालश्चिन्तयत्येवमानयामि यथेच्छया / एनां कोमलिकां शय्यां सुधार क्षणमात्रकम् // देवः सप्तोऽत्र मदनो रतियुक्तो न चिन्तितम्। For Private And Personal Use Only