________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 257 स बालः स्पर्शनेनापि गाढं हर्षादधिष्ठितः // ततः शरीरे तौ तस्य वर्तमानौ क्षणे क्षणे / अभिलाषं मृदुस्पर्श कुरुतस्तोत्रवेदनाम् // परित्यक्तान्यकर्त्तव्यस्तावन्मात्रपरायणः / स बालः सुरतादीनि दिवा रात्रौ च सेवते // कुविन्दडोम्बमातङ्गजातौयाखपि तदशः / अतिलौल्येन मूढात्मा ललनासु प्रवर्तते // ततोऽकर्त्तव्यनिरतं सत्कर्त्तव्यपराङ्मुखम् / तं बालं सकलो लोकः पापिष्ठ इति निन्दति // अज्ञोऽयं गतलज्जोऽयं निर्भाग्यः कुलदूषणः / स एव निन्द्यमानोऽपि मन्यते निजचेतसि // स्पर्शनाम्बाप्रसादेन ममास्ति सुखसागरः / लोको यह कि तहक्नु किमेतज्जल्पचिन्तया // अथाकुशलमालापि निर्गत्य परिपृच्छति / कौदृशौ मामको जाता योगशनिविभाति ते // स प्राहानुग्रहौतोऽस्मि निर्विकल्पोऽहमम्बया / सुखसागरमध्येऽत्र यथाहं संप्रवेशितः // अन्यच्चाम्ब त्वया नित्यं मदनुग्रहकाम्यया / न मोक्रव्यं शरीरं मे यावज्जीवं खतेजमा // अथाकुशलमालाह यत्तुभ्यं वत्स रोचते / तदेव सततं कायं मया मुस्कान्यचेष्टया // खाधीनां तां निरीक्ष्यैवं बालेन परिचिन्तितम् / 33 For Private And Personal Use Only