________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 256 उपमितिभवप्रपञ्चा कथा / भोगा भुक्रा: स्थिता प्रोतिर्जातं नाकाण्डविड्वरम् // प्राप्तो धर्मो नृपादौनामुपकारः कृतो महान् / ततः कालविलम्बोऽयं फलितोऽत्यर्थमावयोः // विचक्षणह कोवात्र सन्देहो नाथ वस्तुनि / किं वा न जायते चारु पर्यालोचितकारिणम् // ततः प्रौतिसमायुतौ संजातौ देवदम्पती / मद्धर्मलाभादात्मानं मन्यमानौ कृतार्थकम् // इदं पुत्र मया तुभ्यं कथितं मिथुनदयम् / मंदिग्धेऽर्थे विलम्बेन कालस्य गुणभाजनम् // ततश्च / मंदिग्धेऽर्थे विधातव्या भवता कालयापना / पश्चाद् बहुगुणं यच्च तदेवाङ्गौकरिय्यते / मध्यमबुद्धिराह यथाज्ञापयत्यम्बा / ततो मनोषिणो वाक्यं स्मरतो नास्य जायते / प्रोतिबन्धो दृढं तत्र स्पर्शने भाववरिणि // बालालापैः पुनस्तत्र स्नेहबुद्धिः प्रवर्त्तते / दोलायमानोऽसौ चित्ते कुरुते कालयापनाम् // दूतश्च तेन बालेन सा प्रोता जननी निजा। अम्ब संदर्शयात्मीयं योगशक्रिबलं मम // तयोक्तं दर्शयाम्येषा पुत्र वं संमुखो भव / ततः सा ध्यानमापूर्य प्रविष्टा तच्छरौरके // श्रथाकुशलमालायां प्रवेशानन्तरं पुनः / For Private And Personal Use Only