________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / स्पर्शनोऽपि ममायत्तः सामग्रौ सर्वमाधिका / अहो मे धन्यता लोके नास्त्यतो बत मादृशः / ततोऽसौ गाढहष्टात्मा खानुरूपं विचेष्टते // अथ निन्दापरे लोके स्नेहविहलमानसः / लोकापवादभौरुत्वान्मध्यबुद्धिः प्रभाषते // बालेन युज्यते कर्तुं तव लोकविरुद्धकम् / अगम्यागमनं निन्द्य सपापं कुलदूषणम् // स प्राह विप्रलब्धोऽसि नूनं मित्र मनीषिणा / वर्ग विवर्त्तमानं मां नेक्षसे कथमन्यथा // ये मूढा जातिदोषेण कोमलं लसनादिकम् / नेच्छन्ति ते महारत्नं मुञ्चन्ति स्थानदोषतः / / तदाकर्ण्य ततश्चित्ते कृतं मध्यमबुद्धिना / नैष प्रज्ञापनायोग्यो व्यर्थो मे वाक्परिश्रमः // एवं च तिष्ठतां तेषां बालमध्यमनौषिणाम् / अथान्यदा समायातो वमन्तो कृतमन्मथः // संजाताः काननाभोगाः सुमनोभरपूरिताः / भ्रमवमरझङ्कारतारगौतमनोहराः // कामिनौहदयानन्ददायक प्रियसविधौ / विजम्भते वनान्तेषु काककोकिलकूजितम् // प्रोत्फुल्लकिंशकाग्रेषु पुष्यभारोऽतिरिक्तकः / वियोगदलितस्त्रीणां पिशितप्रकरायते // मञ्जयः सहकाराणामामोदितदिगन्तराः / For Private And Personal Use Only