________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 253 आर्जवं हि स्वरूपेण शुद्धाशयकरं परम् / वर्द्धमानमतः पापं वारयत्येव देहिनाम् // एतच्चार्जवमत्रार्थ सर्वेषां वर्त्तते समम् / अज्ञानजनितं पापं युग्माकममुना जितम् // रक्षितानि मया यूयमत एव मुहुर्मुहुः / महर्षमेतदाचष्टे डिभरूपं स्मिताननम् // धन्यानामार्जवं येषामेतच्चेतसि वर्तते / अज्ञानादाचरन्तोऽपि पापं ते खल्पपापकाः // यदा पुनर्विजानन्ति ते शुद्धं मार्गमंजमा / तदा विधूय कर्माणि चेष्टन्ते मोक्षवमनि // श्राजौवनं ततो धन्यास्ते शुभ्रौभूतमानसाः / निर्मलाचारविस्ताराः पारं गच्छन्ति संसृतेः // तदेवंविधभावानां भद्राणां बुध्यतेऽधुना / अज्ञानपापे निर्द्धय सम्यग्धर्मनिषेवणम् // उपादेयो हि संसारे धर्म एव बुधैः सदा / विशुद्धो मुक्तये सर्वं यतोऽन्यदुःखकारणम् // अनित्यः प्रियसंयोग हे शोकवत्सलः / अनित्यं यौवनं चापि कुत्सिताचरणास्पदम् // अनित्याः संपदस्तौबक्लेशवर्गसमुद्भवाः / अनित्यं जीवितं चेह सर्वभावनिबन्धनम् // पुनर्जन्म पुनर्मत्यु/नादिस्थानसंश्रयः / पुनः पुनश्च यदतः सुखमत्र न विद्यते // For Private And Personal Use Only