________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 252 उपमितिभवप्रपञ्चा कथा। त एव हि प्रवर्त्तन्ते पापकर्मसु जन्तवः / प्रकाशाच्छादकं येषामेतञ्चेतमि वर्तते // येषां पुनरिदं चित्तायन्यानां विनिवर्त्तते / भौमतान्तरात्मानस्ते सदाचारवर्तिनः // वन्द्यास्त्रिभुवनस्यापि भूत्वा भावितमानमाः / अशेषकल्मषोन्मुक्ता गच्छन्ति परमं पदम् // एतच्चाज्ञानमत्रार्थ सर्वेषां भवतां ममम् / संजातं तेन दोषोऽयमस्यैव न भवादृशाम् // डिभरूपमनेनैव द्वितीयं पापनामकम् / सर्वत्र जन्यते तस्मादत्रापि जनितं किल // एतद्धि सर्वदुःखानां कारणं वर्णितं बुधैः / उद्धेगमागरे घोरे हठादेतत्प्रवर्तकम् // मूलं संक्लेशजालस्य पापमेतदुदाहृतम् / न कर्त्तव्यमतः प्राज्ञैः सर्वं यत्पापकारणम् // हिंसानृतादयः पञ्च तत्त्वाश्रद्धानमेव च / क्रोधादयश्च चत्वार इति पापस्य हेतवः // वर्जनीयाः प्रयत्नेन तस्मादेते मनौषिणा। ततो न जायते पापं तस्मान्नो दुःखसंभवः // युश्माकं पुनरज्ञानाज्जातं पापमिदं यतः / अज्ञानमेव सर्वेषां हिंसादौनां प्रवर्तकम् // वर्द्धमानमिदं पापमार्जवेन निवारितम् / यदत्र कारणं सम्यक् कथ्यमानं निबोधत // For Private And Personal Use Only