________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / वशे गताः पुनर्यऽस्याः साधुभिस्ते विगर्हिताः // अनुकूला भवन्यस्या ये मोहादधमा नराः / तेषामेषा प्रकृत्यैव दुःखसागरदायिका // प्रतिकूला भवन्यस्था ये पुनः पुरुषोत्तमाः / तेषामेषा प्रकृत्यैव सुखसन्दोहकारिका // तावन्मोक्षं नरो देष्टि संसारं बहु मन्यते / पापिष्ठभोगहष्णेयं यावच्चित्ते विवर्त्तते // यदा पुनर्विलायेत कथंचित्पुण्यकर्मणाम् / एषो भवस्तदा सर्वी धूलिरूपः प्रकाशते // तावचाशुचिपुञ्जेषु योषिदङ्गेषु मूढधौः / कुन्देन्दीवरचन्द्रादि कल्पनां प्रतिपद्यते // यावदेषा शरीरस्था वर्तते भोगटष्णिका / तदभावे मनस्तेषु न स्वप्नेऽपि प्रवर्तते // समाने पुरुषत्वे च पर किङ्करतां गताः / निन्द्यं यत्कर्म कुर्वन्ति भोगहष्णात्र कारणम् // येषां पुनरियं देहानिर्गता सुमहात्मनाम् / निर्द्धना अपि ते धौराः शक्रादेरपि नायकाः // किंचित्तामससंमित्रै राजसैः परमाणुभिः / निर्वन्तिशरौरेयं गौता तन्त्रान्तरेष्वपि // तदेषा भवतो पापा पापकर्मप्रवर्तिका। श्रतोऽस्था एव दोषोऽयं विद्यते नैव भद्रयोः // स्वरूपेण मदा भद्रौ निर्मलौ परमार्थतः / For Private And Personal Use Only