________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 246 उपमितिभवप्रयचा कथा / नरेन्द्रायोद्यानपालेन तनः सपौरजनो निर्गतस्तद्दन्दनार्थं राजा / भगवतोऽपि देवैर्विरचितं कनककमलं दृष्टस्तत्रोपविष्टस्तेभ्यो धर्ममाचक्षाणो भगवानरपतिना शिलातलविलुलितमौलिना वन्दितं तत्पादारविन्दं शेषमुनयश्चाभिनन्दिताः कर्मविटपिपाटनपटिष्टनिठुरकुठारायमाणेन धर्मलाभाशीर्वादेन भगवता शेषयतिभिश्च उपविष्टो भूतले / कालज्ञादयोऽपि प्रयुज्य ममस्तं वन्दनादिविनयं यथास्थानमुपविष्टाः प्रस्तुता भगवता विशेषतो धर्मदेशना दर्शिता भवनिर्गुणता वर्णिताः कर्मबन्धहेतवः निन्दितः संमारचारकावासः स्लाघितो मोक्षमार्गः ख्यापितः शिवसुखातिशयः कथिता विषयाभिष्वङ्गस्य भवभ्रमणहेतुभिवसुखप्रतिरोधिका दुरन्तता ततस्तद्भगववचनामृतमाकर्ण विचक्षणाकालजयोर्विदलितं मोहजालमाविभूतः सम्यग्दर्शनपरिणामः समुज्वलित: कर्मेन्धनदहनप्रवण: सुदुचरितपश्चात्तापानलः। अत्रान्तरे तयोः गरौराभ्यां निर्गतै रक्तकृष्णैः परमाणुभिर्घटितरौरा बीभत्मा दर्शनेन भौषणा स्वरूपेण उद्देगहेतुर्विवेकिनां एका स्त्री भगवतः प्रतापं सोढुमक्षमा निर्गत्य पर्षदः पश्चान्मुखौ स्थिता दूरवर्त्तिनि भूभागे स्थिता पश्चात्तापार्टीछतहदयतयागताश्रुमलिलौ समकमेव विचक्षणाकालज्ञौ पतितौ भगवचरणयोः / कालज्ञेनाभिहितं भगवनधमाधमोऽहं येन मया विप्रतारिता स्वभार्या श्राचरितं पारदार्य द्रुग्धः सरलहृदयो मुग्धो जनितो नरेन्द्रमहादेव्यादौनां व्यलोकसुतव्यामोहः वञ्चितोऽयं परमार्थनात्मा तस्य ममैवंविधपापकर्मणः कथं शुद्धिर्भविष्यतौति / विचक्षणयोत ममापि कथं यतः समाचरितं पापिष्ठया मयापौदं For Private And Personal Use Only