________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः। 245 क्रोधः चिन्तितमनेन मारयाम्येनं दुराचारं पुरुषम् / एषा पुनरमरतया न शक्यते मारयितुं तथाप्येवं पौडयामि यथा न पुनः परपुरुषगन्धमपि प्रार्थयते एवं कृतनिश्चयस्याप्यस्य कालज्ञस्य तथाभवितव्यतया प्रवृत्तार्थपर्यालोचना स्फुरितं चित्ते यथा न सम्यग् चिन्तितमिदं मया / न पौडनीया तावद्विचक्षण यतोऽहमपि न शुद्धाचारो ममापि ममानोऽयं दोषः मारणमपि मुग्धस्य न युक्तं यतो मारितेऽस्मिन्नन्यथाभावं विज्ञाय न भजते मामकुटिला विरज्यते सुतरां विचक्षणा तत्किमकुटिलां ग्रहोवादृष्टखकलत्रधर्षण: इतोऽपक्रमामि एतदपि नास्ति यतोऽकाण्डप्रस्थानेन स्वाभाविकोऽयमिति लक्षितविकारा कदाचिदकुटिला मां न भजते तया रहितस्य पुनर्गमनमनर्थकमेव तस्मादौाधम्म परित्यज्य कालविलम्ब एवात्र श्रेयानिति / विचक्षणयापि चिन्तित मये स एवायं मदौयभर्ती कालज्ञोऽनेन रूपेण स्थितः कुतोऽन्यस्यात्र संभव इति ततः कथमस्य पुरतःपरपुरुषेण सह तिष्ठामौति संजातलज्जा / अयमन्यां भजत इति समुत्पन्नादुःशकमेवं स्थिते स्थातमित्याविर्भूतकुलभावागताया अपि न काचिदर्थसिद्धिरिति स्थानेनात्मानं तोषयन्तौ न चान्या गतिरस्तौति निरालम्बा मापि यद्भविष्यत्तया कालविलम्बमेवाश्रित्य तत्रैव स्थिता। तत्प्रमत्यदर्शितवैक्रियौ परित्यक्ताधर्मो देवमायया समस्तमानुषकर्त्तव्यान्याचरन्तौ प्रत्येकं दयं भजमानौ स्थितौ विचक्षणकालज्ञौ प्रभूतकालम् / अन्यदा मोहविलयाभिधाने कानने सातिशयज्ञानादिरत्नाकरो बहुशिष्यपरिकरः समागतः प्रतिबोधको नामाचार्यः / निवेदितो For Private And Personal Use Only