SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 244 उपमितिभवप्रपञ्चा कथा / मुग्धः प्राह किं तत् विचक्षणाह व्रजामो लताभवनं मानयामो विशेषतः सदुपवनश्रियं प्रतिपन्नमनेन ततो गत्वा तौ विचक्षणमुग्धौ तत्रैव कदलौलताग्रहके दृष्टं तन्मिथुनं निरीक्षितं विस्मिताभ्यां परस्पराभिमुखं मिथुनाभ्यां न दृष्टस्तिलतुषत्रिभागमात्रेऽपि खेतरयोर्विशेषः मुग्धेन चिन्तितम् / अये भगवतीनां वनदेवतानां प्रमादेन द्विगुणोऽहं संपन्नो देवी च तदिदं महदभ्युदयकारणं तं निवेदयामौदं ताताय ततो निवेद्य स्वाभिप्रायमितरेषां गच्छामस्तावतातसमौपम् / इत्यभिधायोत्थितो मुग्धः चलितं चतुष्टयमपि प्रविष्ठं ऋजुराजास्थाने। तदिलोक्य विस्मितो राजा महादेवी परिकरश्च किमेतदिति पृष्टो मुग्धः स प्राह वनदेवताप्रमादः ऋजुराह कथं ततः कथितो मुग्धेन व्यतिकरः ऋजुना चिन्तितम्। अहो मे धन्यता अहो मे देवतानुग्रहः ततो हर्षातिरेकेण समादिष्टस्तेनाकालमहोत्सवो नगरे दापितानि महादानानि विधापितानि नगरदेवतापूजनानि स्वयं च राजा राजमण्डलमध्यस्थः प्राह एकेन सुतेन सुतदयं वध्वा जातमथो वधूदयं खादतपिबताथ सज्जना गायत वादयताथ नृत्यत ततः प्रगुणापि महादेवौ एतदेव नरेन्द्रोतमनुवदन्ती वादितानन्दमईलसन्दोहबधिरितदिगन्ता विहितो_भुजा नर्त्तितुं प्रवृत्ता द्विगुणाहं संपन्नेति गता हर्षमकुटिला प्रनृत्ताः शेषान्तःपुरिकाः प्रमुदितं नगरं वृत्तो रहता विमर्दैन महानन्द इति / केलिप्रियतया दृष्टः कालज्ञः केवलं चिन्तितमनेन का पुनरेषा द्वितीया योषित् संजातेति उपयुक्तोजाने ज्ञातमनेन अवैषा मदौयभार्या विचक्षणेति ततः संजातः For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy