________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः। 243 कालज्ञस्याभूदकुटिलायां तोवोऽनुरागः तथैव च मुग्धस्योपरि विचक्षणायाः। ततः किलैनां वञ्चयामौति बुद्ध्या कालज्ञेनाभिहिता विचक्षणा / देवि व्रज त्वमग्रतः तावद्यावदहमितो राजग्टहोपवनादेवार्चन निमित्तं कतिचित्कुसुमान्यादायागच्छामि सा तु मुग्धहृदयतया स्थिता मौनेन गतोऽकुटिलाभिमुखं कालज्ञोऽवतीर्ण घनतरगहने श्रदर्शनीभूतो विचक्षणायाश्चिन्तितमनेन श्रये किं पुनः कारणमाश्रित्येदं मिथुनं परस्परतो दवीयोदेशवर्त्ति वर्त्तते / ततः प्रयुक्तमनेन विभङ्गज्ञानं लक्षितं तयोर्दूरोभवनकारणं ततोऽयमेवात्रोपाय इति विचिन्त्य कृतमनेन देवशक्त्यात्मनो वैक्रियं मुग्धरूपं निर्वर्त्तिता कनकसूर्पिका मृता कुसुमानां गतोऽकुटिलासमोपं ससंभ्रममाह च जितामि प्रिये जितासि ततः कथमार्यपुत्री झटित्येवायातो जिताहमपि विलक्षौभूता मनागकुटिला कालज्ञेनाभिहितं प्रियेऽलं विषादेन स्वल्पमिदं कारणं केवलं निर्वर्त्तितोऽधुना कुसुमोच्चयो व्रजावोऽमुग्मिन्नुपवनविभूषणे कदलौलताटहे प्रतिपनमनया ततो गत्वा कृतमाभ्यां तत्र पल्लवशयनीयम् / इतश्च विचक्षणया चिन्तितं अये गतस्तावदेष कालज्ञः ततो यावदयं नागच्छति यावच्चेयं नारी दूरे वर्त्तते तावदवतीर्य मानयाम्येनं रतिवियुक्तमकरकेतनाकारं तरुणं करोम्यात्मनो जन्मनः माफल्यं लक्षितश्चानयापि विभङ्गज्ञानेनैव तयोर्दूरीभवनहेतुस्ततो विधायाकुटिलारूपं कुसुममृतकनकसूर्पिका गता मुग्धसमौपम् / श्राह च जितोऽस्थार्यपुत्र जितोऽसि / ततः ससंभ्रमं तां निरौप्य मुग्धः प्राह प्रिये सुष्टु जितः किमधुना क्रियतां विचक्षणयोक्तं यदहं वदामि For Private And Personal Use Only