________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 242 उपमितिभवप्रपञ्चा कथा / कार्य: कालविलम्बोऽत्र दृष्टान्तो मिथुनदयम् // मध्यमबुद्धिस्वाच / अम्ब किं तन्मिथुनद्वयं सामान्यरूपयोत पुत्राकर्णय। अस्ति तथाविधं नाम नगरं तत्र ऋजुर्नाम राजा तस्य प्रगुणा नाम महादेवी तयोर्मकरध्वजाकारो मुग्धो नाम तनयः तस्य च रतिमन्निभा अकुटिला नाम भार्या ततस्तयोर्मुग्धाकुटिलयोरन्योन्यबद्धानुरागयोर्विषयसुखमनुभवतोर्बजति कालः। अन्यदा वसन्तसमये उपरितनप्रासादभूमिकावासभवने व्यवस्थितः प्रभाते उत्थितो मुग्धकुमारो मनोहरविविधविकसितकुसुमवनराजिराजितं ग्रहोपवनमुपलभ्य संजातक्रीडाभिलाषो भार्यामुवाच देवि अतिरमणैयेयमुपवनौः तदुत्तिष्ठ गच्छावः कुसुमोच्चयनिमित्तं पानयाव एनां अकुटिलयाभिहितं यदाज्ञापयत्यार्यपुत्रः ततो ग्रहोत्वा मणिखचिके कनकसूर्पिके गते ग्रहोपवनं प्रारब्धः कुसुमोच्चयो मुग्धः प्राह देवि पश्यावस्तावत्कः कनकमर्पिकां झटिति पूरयति ब्रज त्वमन्यस्यां दिशि अहमत्वस्यां व्रजामौति अकुटिलयाभिहितं एवं भवतु गतौ कुसुमोच्चयं कुर्वाणौ परस्परं दर्शनपथातौतयागहनान्तरयोः। अत्रान्तरे कथंचित्तं प्रदेशमायातं व्यन्तरदेवमिथुनकं कालज्ञो देवो विचक्षणा दिवी तेन च गगनतले विचरतावलोकितं तन्मानुषमिथुनं ततोऽचिन्यतया कर्मपरिणतेरतिसुन्दरतया तस्य मानुषमिथुनस्थापर्यालोचितकारितया मन्मथस्य मदनजननतया मधुमासस्यातिरमणैयतया प्रदेशस्य केलिबहलतया व्यन्तरभावस्या तिचपलतयेन्द्रियाणां दुर्निवारतया विषयाभिलाषस्थातिचटलचारितया मनोवृत्तेस्तथाभवितव्यतया च तस्य वस्तुनः For Private And Personal Use Only