________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः। 241 मबुद्धेः शरीरं विस्मितो मध्यमबुद्धिः प्रवृत्ता कोमलस्पर्शच्छा उपभुक्रानि ललितशयनसुरतादीनि संजातश्चित्ताल्हादः प्रौणितो मध्यमबुद्धिः प्रकटौभृतः स्पर्शनः पृष्टं स्वप्रयासमाफल्यमनुग्टद्दौतोऽहं भवतेति निवेदितं मरभसेन मध्यमबुद्धिना। ततः पात्रीभृतोऽयमपि न दूरयायौ वर्त्तत इति विचिन्तितं स्पर्शनेन। मनोषिणा चिन्तितं वशौक्लितप्रायोऽयमपि मध्यमबुद्धिरनेन पापेन स्पर्शनेनातो यापेदशं ग्टहाति ततः शिक्षयाम्येनं माभूदस्य मुग्धतया वराकस्य वञ्चनमिति / ततो रहसि मध्यमबुद्धिरभिहितो मनौषिणा / भट्र न भद्रकोऽयं स्पर्शनो विषयाभिलाषः प्रयुक्तोऽयं लोकानां वञ्चकः पर्यटति / मध्यमबुद्धिरुवाच कथं ततः कथिता मनीषिणा बोधप्रभावोपलब्धा समस्तापि तस्य स्पर्शनस्य मूलशुद्धिः। मध्यमबुद्धिना चिन्तितं खानुभवसिद्धा मम तावदस्य स्पर्शनस्य संबन्धिनौ वत्सलता अचिन्यप्रभावता सुखहेतुता च श्रयमपि च मनौषौ नायुकभाषी तन्न जानोमः किमत्र तत्त्वं किं वा वयमेवंस्थिते कुर्म इति / अथवा किमनेन चिन्तितेन तावदम्बां पृच्छामि तदुपदिष्टमाचरिष्यामौति विचिन्त्य गतः सामान्यरूपायाः समीपं कृतं पादपतनं अभिनन्दितस्तया निविष्टः चितितले निवेदितो व्यतिकरः सामान्यरूपयोक्तं वत्स तावत्त्वयाधुना स्पर्शनमनौषिणोईयोरपि वचनमनुवर्त्तयतोभयाविरोधेन मध्यस्थतयैव स्थातं युक्त कालान्तरे पुनर्य एव बलवत्तरः पक्षः स्थात् स एवाश्रयणीयः / तथा हि। संशयापन्नचित्तेन भिन्ने कार्यदये मता। 31 For Private And Personal Use Only