________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 240 उपमितिभवप्रयचा कथा / कैषा भाषा / मनौषिणा चिन्तितं मूढः खल्वेष न शक्यते निवारयितुमतोऽलमेतन्निवारणेन स्वरक्षणे मया यत्नो विधेयः / तथा हि। अकार्यवारणोद्युको मूढे यः परिखिद्यते / वाखिस्तरो वृथा तस्य भस्मन्याज्याहुतिर्यथा // नोपदेशशतेनापि मूढोऽकार्यानिवर्त्यते / शीतांशुग्रमनात्केन राहुर्वाक्यैर्निवारितः // अकार्य दुर्विनौतेषु प्रवृत्तेषु ततः सदा / न किंचिदुपदेष्टव्यं सता कार्यावधीरणा // इत्यालोच्य स्वयं चित्ते हित्वा बालस्य शिक्षणम् / खकार्यकरणोद्युक्तो मनीषी मौनमाश्रितः // इतश्च तस्यैव कर्मविलासस्य राज्ञोऽस्ति सामान्यरूपा नाम देवी तस्याश्चाभौष्टतमोऽस्ति मध्यमबुद्धिर्नाम दारको वल्लभतमो मनौषिबालयोः क्रीडितस्ताभ्यां मह भूयांसं कालं म च प्रयोजनवशाद्राजादेशेनैव देशान्तरं गत श्रासीत् तदानीमागतः। दृष्टौ मनौषिवाली सह स्पर्शनेन श्रालिङ्गितस्ताभ्यां स्पर्शनेन ततः मकौतुकेन मध्यमबुद्धिना कर्णाभ्यर्ण निधाय वदनं पृष्टो बालः क एष इति निवेदितो बालेनास्थ यथा स्पर्शननामायमचिन्यप्रभावोऽस्मत्महचर इति। मध्यमबुद्धिरुवाच कथं ततः कथितो बालेन सर्वोऽपि व्यतिकरः संजातो मध्यमबुद्धेरपि स्पर्शनस्थोपरि स्नेहभावः बालेनाभिहितं भद्र स्पर्शन दर्शयास्य खकौयं माहात्म्यं स्पर्शनः प्राह एष दर्शयामि / ततः प्रयुक्ता योगशक्तिः कृतमन्तर्धान अधिष्ठितं मध्य For Private And Personal Use Only