________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 236 नाकाण्ड एव मुञ्चन्ति सदोषमपि सज्जनाः / प्रतिपन ग्रहस्थायौ तत्रोदाहरणं जिनः // प्रतिपनमकाले तु सदोषमपि यस्त्यजेत् / स निन्द्यः स्यात्सतां मध्ये तत्रामौ स्वार्थमाधकः // यस्तु मूढतया काले प्राप्तेऽपि न परित्यजेत् / मदोषं लभते तस्मात् स्वक्षयं नात्र संशयः // हेयबुद्ध्या ग्रहोतेऽपि ततो वस्तुनि बुद्धिमान् / तत्त्यागावसरापेक्षौ प्रशंमां लब्धुमर्हति // कर्मविलासराजस्तु महादेवीभ्यां सकाशात्तं कुमारव्यतिकरमाकर्ण परितुष्टो मनौषिणो रुष्टो बलस्य चित्तमध्ये बालेनापि ततः प्रभृति गाढतरं कोमलशयनसुरताद्यासेवनानि स्पर्शनप्रियाणि दिवानिशमाचरता परित्यको राजकुमारोचितः शेषव्यापारः परिहृतं गुरुदेवपादवन्दनं विमुक्त कलाग्रहणं शिथिलौकता लन्ना अङ्गीकृतः पशुधर्मः ततोऽसौ न गणयति लोकवचनीयतां न रक्षति कुलकलङ्क न जानौते खस्खोपहास्यतां नोपेक्षते कुशलपक्षं न ग्रहाति सुदुपदेशान् केवलं यत्र कुत्रचित् नारीसङ्गमाशनमन्यदा किञ्चित्कोमलमुपलभते तत्र तत्राविचार्य तत्स्वरूपं लौल्यातिरेकेण प्रवर्त्तत एव / ततो मनौषो संजातकरुणस्तं शिक्षयति स्पर्शनस्य मूलशुद्धिमाचष्टे वञ्चकोऽयमिति दीपयति भ्रातर्नास्य विश्वमनीयं परमरिपुरेष स्पर्शन इति तं बालं पुनः पुनश्चोदयति। बालः प्राह मनौषिन्नलमनेनादृष्टार्थन प्रलापेन य एष मे वरवयस्योऽनन्तागाधसुखसागरावगाहने हेतुः म एव ते परमरिपुरिति For Private And Personal Use Only