________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / साभिप्रायकमेतद् दुष्टः खल्वेष मनौषौ न शक्यते मादृशै रचयितुं लक्षितोऽहमनेन स्वरूपतः प्रायेण तस्मात्सलज्न एव तावदास्तां नात्र बहुविकत्थनं श्रेयस्करमिति विचिन्य धर्ततया कृता स्पर्शनेन काकलौ न दर्शितो मुखविकारोऽपि स्थितो मौनेनेति / दूतश्च बालेनापि स्वमातुरकुशलमाचायाः कथितः समस्तोऽपि रभसेन यो योगशक्तिपुरःसरं सुखसंपादनसामर्थ्यलक्षण: स्पर्शनव्यतिकरः / अकुशलमालोवाच / जात सूचितमिदमादावेव मया यथा सुन्दरस्तवानेन वरमित्रेण मार्द्ध संबन्धः हेतुः सुखपरंपरायाः किं चास्ति ममापौदृशौ योगशनिरिति दर्शयिष्याम्यहमपि जातस्य कुतूहलं बालस्तूवाच यद्येवं ततो बडतरमम्बायाः प्रसादेनास्माभिरद्यापि द्रष्टव्यम् / अकुशलमालोवाच तत्कथनौयं भवता यदा प्रयुज्यते योगशक्तिरिति / दूतश्च मनौषिणापि स्वमातुः शुभसुन्दर्या निवेदितः सर्वोऽपि स्पर्शनवृत्तान्तः तयाभिहितं वत्म न चारुस्तवानेन पापमित्रेण मह संसर्गः कारणमेष दुःखपद्धत्तेः मनीषिणाभिहितं सत्यमेतत् केवलं न कर्त्तव्यमत्र भयमम्बया लक्षितो मयायं स्वरूपेण नाहमस्य यत्नवतोऽपि वञ्चनागोचरः केवलमस्य परित्यागकालं प्रतिपालयामि / यतः प्रतिपन्नोऽयं मया मित्रतया नाकाण्ड एव हातुं युक्तः / शुभसुन्दर्युवाच जात सुन्दरमिदमनुष्ठितं भवता अहो ते लोकज्ञता अहो प्रतिपन्नवात्सल्यं अहो नौतिपरता अहो गंभीरता अहो स्थैर्यातिरेकः / तथा हि। For Private And Personal Use Only