________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 237 कथंचित्प्रतिपन्नोऽयं मित्रतयानुवर्त्तनीयस्तावदिति भावनया कालयापनां कुर्वाणस्तदनुकूलमपि किंचिदाचरति / तथापि तस्य लौल्यरोगविकलतया मन्तोषामृतस्वस्थौभूतमानसस्य रोगरहितशरीरस्येव सुपथ्यानं तच्छयनादिकमुपभुज्यमानं सुखमेवोत्पादयति / तथापि नामौ तत्राभिष्वङ्गं विधत्ते ततो न भवत्यागामिनोऽपि दुःखस्य बन्धः श्रन्यदा प्रकटौभूतः स्पर्शनः अभिहितोऽनेन बालः अपि वयस्य मदौयपरिश्रमस्यास्ति किंचित्फलं संपन्नस्ते कश्चिदुपकारः / बालः प्राह / सखेऽनुग्टहौतोऽस्मि दर्शितो ममाऽचिन्याल्हादसंपादनेन भवता साक्षात्वर्गः / अथवा किमत्राश्चर्य परार्थमेव निर्मितस्त्वमसि विधात्रा / तथा हि / परार्थमेव जायन्ते लोके नूनं भवादृशाः / मादृशानां तु संभूतिस्त्वत्प्रसादेन सार्थका // इदं हि तेषां मौजन्यं यत्स्वभावेन सर्वदा / परेषां सुखहेतुत्वं प्रपद्यन्ते नरोत्तमाः // स्पर्शनेन चिन्तितं श्रये संपन्नम्तावदेष मे नियभिचारः किङ्करः प्रतिपद्यते मयादिष्टमेष कृष्णं श्वेतं श्वेतं कृष्णमिति निर्विचारं एवं विचित्य स्पर्शनेनाभिहितं वयस्य यतैव नः प्रयोजनं चरितार्थोऽहमिदानौं भवदुपकारसंपत्त्येति / / ततो मनौषिसमीपमुपगम्याभिहिमनेन सखे किं मार्थकः भवतोऽर्थसंपादनेन मदीयः प्रयास उत नेति मनौषिणोनं भद्र किमत्रोच्यतां अनाख्येयस्तावकोऽतिशयः स्पर्शनेन चिन्तितं श्रये For Private And Personal Use Only