SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 235 ततोऽनेन सह यापनया बर्तितव्यं पूर्वस्थित्यैव पर्यटितव्यं सर्वत्र महितेन कर्त्तव्यं चात्मीयप्रयोजनबोधकमस्य वचनं केवलमभिष्वशोऽस्योपरि न कार्यो मया यावदस्य सर्वथा परित्यागावसरो भवति एवं वर्तमानस्य मे न भविष्यत्येष बोधक इति / स्थापितो मनौषिण स्वचेतसि सिद्धान्तः / ततः पूर्वस्थित्यैव विलसन्ति ते स्पर्शनमनौषिबाला नानास्थानेषु व्रजन्ति दिनानि अन्यदा स्पर्शनेन कृतो जल्पप्रस्तावोऽभिहितं च तेन अरे किमत्र लोके सारं किं वा सर्व जन्तवोऽभिलषन्ति / बालेनाभिहितं वयस्य किमत्र ज्ञातव्यं सुप्रसिद्धमिदं स्पर्शनः प्राह कथय किं तत् बालो जगाद वयस्य सुखं स्पर्शनः प्राह तत् किमिति तदेव सदा न सेव्यते बालेनाभिहितं कस्तस्य सेवनोपायः स्पर्मानेनोक्तं अहम् / बालो जगाद कथं स्पर्शनः प्राह अस्ति मे योगशनिः तयाहं प्राणिनां शरीरमनुप्रविश्य बहिरन्तश्च क्वच्चिलौनस्तिष्ठामि ततश्च ते यदि भक्तिपुरःसरं मामेव ध्यायन्ति कोमलललितस्पर्शनसंबन्धं कुर्वन्ति ततो निरुपमं सुखं लभन्ते तेनाहं सुखसेवनस्थोपायो मनीषिणा चिन्तितं अये रचितोऽनेनावयोर्वञ्चनप्रपञ्चो बालेनाभिहितं वयस्य तत्किमियन्तं कालं नावेदितमिदमस्माकं अहो वञ्चिता वयमघन्याः सत्यप्येवंविधे सुखोपाये तदनासेवनेन अहो ते गंभीरता यदेवंविधामपि योगशक्तिमात्मनो न प्रकटयसि तदिदानीमपि कुरु प्रसादं दर्शय कुतूहलं व्यापारय योगशक्तिं भवावयोः सुखमेवन हेतुरिति / ततः किं क्रियतामेतदिति दृष्टिविकारेणैव दर्शयता माकूतेन निरौचितं मनीषिणो वदनं स्पर्शनेन। ततः पश्यामि किं तावत् करोतौति For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy