SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 234 उपमितिभवप्रपञ्चा कथा खयति तेनैव चाहं शरीरप्रासादानिःमारितो भवजन्तुश्च निवृत्ती नगयों प्रापितः स एव तत्र कारणं पुरुषः सदागमस्य केवलमुपदेशदाने व्यापारो मनीषिणाभिहितं भद्र किं तस्याभिधानं स्पर्शनः प्राह कथितमिदमार्यस्य मया नाहं भयाकुलतया तदभिधानमुच्चारयामि / अत एव पूर्वमपि मया न युमाकं तदाख्यातं किं चातिपापिष्ठोऽसौ ततोऽलं नामग्रहणेन पापिष्ठजनकथा हि क्रियमाणा पापं वर्द्धयति यशो दूषयति लाघवमाधत्ते मनो विप्नावयति धर्मबुद्धिं ध्वंमयतीति / मनीषिणाभिहितं तथापि महत्कुलहलं तदभिधानश्रवणेऽस्माकं न चास्मदभ्यर्ण वर्तमानेन भवता तनयं विधातव्यं न च नामग्रहणमात्रेण किंचित्पापं न ह्यमिरित्युक्ने मुखदाहः संपद्यते / ततो विज्ञाय निबन्धं तरलिततारं दशापि दिशोऽवलोकयता स्पर्शनेनाभिहितं आर्य यद्येवं ततः सन्तोष इति तस्य दुर्नामकस्य नाम मनौषिणा चिन्तितं सम्यगुपलब्धा मूलशुद्धिरस्य स्पर्शनस्य प्रभावेण यतः सन्तोषव्यतिकर एवैकस्तत्राघटमानक प्रासीत् सोऽप्यधुना घटितः सम्यङ्मया पूर्व वितर्कितं यथा न सुन्दरः खल्वेष स्पर्शनः प्रायेणेति यतो विषयाभिलाषप्रयुक्तोऽयं लोकवञ्चनप्रवण: पर्यटति तदशोभन एवायं तथापि प्रतिपनोऽयं मया मित्रतया दर्शितो बहिश्छायया स्नेहभावः क्रीडितमेकत्र बहुकालं तस्मान्न युक्तोऽकाण्ड एव परित्यक्तुं केवलं विज्ञातस्वरूपेणास्य मयाधुना सुतरां न कर्त्तव्यो विशंभो नाचरितव्यमस्यानुकूलं न समर्पणौयमात्मस्वरूपं न निवेदनौयं गुह्यं नापि दर्शनीयो बहिर्भावो विषमप्रकृतिरेष वर्त्तते For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy