SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 233 परप्रयोजनमेव हि ते स्वप्रयोजनं मन्यन्ते ततश्चैवंविधेर्मदौयवचनेमनसि परितुष्टो नामयित्वा मदभिमुखमौषदुत्तमाकं व्रजाम्यहमधुना इत्यभिधाय च कृतप्रणामो मया गतो विपाकः / मया चिन्तितं साधितप्रायं मयाधुना राजकार्यं यतः स्पर्शनस्य मूलशद्धिमुपलभ्य भवतागन्तव्यमेतावानेव मम राजादेशः। तत्र यावन्तोऽनेन विपाकेन स्पर्शनादौनां गुणा वर्णितास्ते सर्व तत्र स्पर्शने घटन्ते ममानुभवसिद्धमेतत् तस्मादेतदुपवर्णितमानुषपञ्चकस्याद्योऽसौ भविष्यति / लब्धा मया तस्य मूलशुद्धिः केवलमेकं मन्तोषव्यतिकरमद्यापि नावगछामि / एतावद्वितर्कयामि सदागमानुचर एवायं कश्चिद्भविष्यति अन्यथा पूर्वापरविरुद्धमेतत्स्यात्। अथवा किमनेन गच्छामि तावत् खामिपादमूलं निवेदयामि यथोपलब्धवृत्तान्तं ततो देव एवात्र यथोचित विज्ञास्यतीत्यालोच्य समागतोऽहमेतदाकर्ण्य देवः प्रमाणमिति / बोधेनाभिहितं माधु प्रभाव साधु सुन्दरमनुष्ठितं भवता ततः सहैव प्रभावेण प्रविष्टो बोधः कुमारसमीपं कृतप्रणामेन च निवेदितः कुमाराय समस्तोऽपि प्रभावानौतवा वृत्तान्तः परितुष्टो मनौषो पूजितः प्रभावः पृष्टोऽन्यदा मनीषिणा स्पर्शनः / यदुत भद्र किं भवतः सदागमेनैव तेन भवजन्तुना सुमित्रेण सह विरहः संपादितः उत तत्र कश्चिदन्योऽप्यासौदिति। स्पर्शनेनाभिहितं आर्य आसीत् केवलमलं तत्कथया न खल्वहं भयविहलतया तस्य क्रूरकर्मणो नामाप्युच्चारयितुं शक्नोमि / म हि सदागमस्तस्य केवलं भवजन्तोरुपेदभं ददाति मत्कदर्थनविषयम् स तु तस्यैवानुचरः क्रूरकर्मा नानायातनाभिः साक्षान्मां कदर्थयति भवजन्तुं मत्तो विमु 30 For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy