________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 225 सुखं न चैष तावदद्यापि सम्यग् लक्ष्यते कीदृशस्वरूप इति न चाज्ञातपरमार्थैरेष निर्धारयितुं संग्टहीत वा पार्यते / तदिदमत्र प्राप्तकालं गवेषयामि तावदस्य मूलशुद्धिं ततो विज्ञाय यथोचितमाचरिष्यामौति स्थापितः सिद्धान्तस्ततः समाहतो रहसि बोधो नामाङ्गरक्षः / अभिहितश्चासौ भद्र ममास्य स्पर्शनस्योपरि महानविश्रंभः तदस्य मूलशुद्धिं सम्यगवबुध्य शीघ्रमावेदय। बोधेनाभिहितं यदाज्ञापयति कुमार इति निर्गतो बोधः / ततोऽभ्यस्तसमस्तदेशभाषाकौशलो बहुविधवेषविरचनाचतुरः खामिकार्यबद्धकक्षो लब्धलक्ष्योऽनुपलक्ष्यश्च प्रहितस्तेनात्मौयः प्रभावो नाम पुरुषः प्रणिधिः श्रादिष्टश्चासौ प्रस्तुतप्रयोजनं ततो विविधदेशेषु कियन्तमपि कालं पर्यव्य समागतः मोऽन्यदा प्रविष्टो बोधसमीपे विहितप्रणामो निषलो भूतले बोधेनापि विधायोचितां प्रतिपत्तिमभिहितोऽसौ भद्र वर्णयात्मीयवृत्तान्तम् / प्रभावः प्राह यदाज्ञापयति देवः / अस्ति तावदहमितो निर्गत्य गतो बहिरङ्गेषु नानादेशेषु न लब्धो मया तत्र प्रस्तुत प्रवृत्तिगन्धोऽपि / ततो गतोऽहमन्तरङ्गेषु जनपदेषु तत्र च दृष्टमेकत्र मया भिल्लपल्लीकल्पमाकीर्णं समन्ताकामादिचरटैर्निवास: पापिष्ठलोकानामाकरो मिथ्याभिमानस्य हेतुरकल्याणपरम्परायाः अवष्टब्धं सततं विततेन तममा रहितं प्रकाशलेगेनापि राजमचित्तं नाम नगरम् / तत्र च चूडामणिश्चरटचक्रम्य कारणं समस्तपापवृत्तीनां वज्रपातः कुशलमार्गगिरेः दुर्जयः शक्रादौनामतुलबलपराक्रमो रागकेसरौ नाम नरेन्द्रः / तस्य च चिन्तकः सर्वप्रयोजनानां अप्रतिहताज्ञः समस्तस्थानेषु For Private And Personal Use Only