SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 226 उपमितिभवप्रपञ्चा कथा / निपुलो जगद्दशीकरणे कृताभ्यामो जन्तुविमोहने पटबुद्धिः पापनौतिमार्गेषु अनपेक्षः स्वकार्यप्रवृत्तौ परोपदेशानां निक्षिप्तसमस्तराज्यभारो विषयाभिलाषो नामामात्यः। ततस्तस्मिन्नगरे याव दहं राजकुलस्याभ्यर्णभूभागे प्राप्तस्तावदकाण्ड एव समुल्लसितोबहलः कोलाहलो निर्गच्छति घोषयता बन्दिवन्देन प्रख्यापितमाहात्म्या लोल्या दिनरेन्द्राधिष्ठिता मिथ्याभिनिवेशादयो भूयांसः स्यन्दनाः पूरयन्ति गलगर्जितेन दिगन्तराणि राजमार्गमवतरन्तो ममत्वादयः करिवराः चलिता हेषारवेष बधिरयन्तो दिक्चक्रवालं अज्ञानादयो वरवाजिनो विराजन्ते ग्रहौतनानायुधा रणशौण्डौरतया वलामानाः पुरतो धावन्तश्चापलादयोऽसंख्येयाः पदातयः। ततः कन्दर्पप्रयाणकपटहशब्दाकर्णनसमनन्तरं खरपवनप्रेरितमेघजालमिव क्षणमात्रेणैव विलासध्वजमालाकुलं विब्बोकशंखकाहलाध्वनिपूरितदिगन्तरं मौलितमपरिमितं बलं ततस्तदवलोक्य मया चिन्तितं श्रये किमेतत् गन्तुमिव प्रवृत्तः कचिदयं राजा लक्ष्यते तत्किमस्य गमनप्रयोजनमिति यावद्वितर्काकुल स्तिठामि तावदृष्टो मया पर्यन्तदारुणः स्वरूपेणादर्शकः संसारवैचित्र्यस्थ बोधको विदुषां निर्वदभूमिर्विवेकिनामविज्ञातस्वरूपो निर्विवेकस्तस्यैव विषयाभिलाषस्य मन्त्रिण: संबन्धी विपाको नाम पुरुषः / ततः प्रियसंभाषणपूर्वकं पृष्टोऽसौ मया भद्र कथय किमस्य नरेन्द्रस्य प्रस्थानकारणं कुतूहलं मे विपाकेनाभिहित पार्य यद्येवं ततः समाकर्णय पूर्वमिह क्वचिदवसरे सुग्रहीतनामधेयेन देवेन रागकेसरिणाभिहितोऽमात्यो यदुत आर्य विषयाभिलाष तथा For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy